SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ [२३७ गुणानुमोदनाद्वारेऽभयकुमारकथा] "मुनिरूचे न भूपाल ! दुष्करं करिमोक्षणम् । आमतकुलतातन्तुपाशमोक्षस्तु दुष्करः ॥१२९॥ राज्ञा पृष्टश्च स मुनिस्तधैतन्तुकथां तथा। कथयामास राजापि सलोकोऽपि विसिष्मिये" ॥१३०॥ 'मुनीन्दुराईकेयोऽथाभयमेवमभाषत । निष्कारणोपकारी त्वं ममान्तर्धर्मबान्धवः ॥१३१॥ त्वया हि प्रेषिता राजपुत्रार्हत्प्रतिमा मम । तदर्शनादहं जातिस्मरीभूयार्हतोऽभवम् ॥१३२॥ अनार्यत्वमहापङ्के निमग्नोऽहं त्वयोद्धृतः । त्वबुद्ध्या बोधवानार्यदेशायातोऽभवं व्रती ॥१३३।। किं किं त्वया न दत्तं मे बोधिरत्नं प्रयच्छता ? ततोऽभयकुमारं ! त्वं लभस्वानुत्तरां श्रियम्" ॥१३४।। श्रेणिकश्चभयश्चैतं नत्वाऽयातां स्वमाश्रयम् । आईकिः श्रीमहावीरं दृष्ट्वा शिवपदं ययौ ॥१३५।। ॥ इत्यभयकुमारकथायां कर्मजबुद्धिनिबन्धनं तृतीयः प्रकाशः ॥ 15. $$ अथैकदा संसदि वीरभर्तुर्दृष्ट्वाऽभयो मञ्जु महर्षिमेकम् । पप्रच्छ नाथं भगवान् ! क एष मुनीश्वरो योग इवाङ्गयुक्तः ? ॥१॥ अथाह नाथः श्रृणु वत्स ! वीतभयाख्यमास्ते नगरं प्रतीच्याम् । राजा तदीयोऽयमुदायनोऽस्मगिरा भवोद्विग्नमना बभूव ॥२॥ प्रभावतीकुक्षिभवं च राज्ये निवेश्य केशाख्यमयं स्वपुत्रम् । अस्मत्करेण व्रतमाप मोक्षमिहैव गन्ताऽखिलकर्महन्ता ॥३॥ सत्पारिणामिक्यभिधानबुद्धिरथाभयः प्राञ्जलिरित्युवाच । राजर्षिरन्त्यो भविता प्रभो ! कः स्वामी जगावत्र युगेऽयमेव ॥४॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy