________________
२३६]
[विवेकमञ्जरी
ऊचुस्ते चेति हन्तव्यो वरमेको मतङ्गजः । यस्यैकस्यापि मांसेन भूयान् कालोऽतिवाह्यते ॥११७।। एकेन्द्रियस्य धान्यस्य जायन्ते पञ्चभिः कणैः ।... पञ्चेन्द्रियत्वं तत्तृप्ति रिपञ्चेन्द्रियव्ययात् ॥११८॥ एवं च ते दयाभासधर्मनिष्ठास्तपस्विनः । करिणं मारणायैकं बबन्धुस्तरुणा सह ॥११९।। सभारशृङ्खलाबद्धो यत्र चासीद् मतङ्गजः । तेनाकिः पथा प्राप महर्षिः करुणार्द्रधीः ॥१२०॥ महर्षिदर्शनात् तस्य वन्दनोत्सुकचेतसः । अयस्पाशा व्यशीर्यन्त कर्मपाशा इवाभितः ॥१२१।। निरर्गलः करी सोऽथ वन्दितुं तं महामुनिम् । अभ्यसार्षीज्जनस्तूचे मुनिरेष हतो हतः ॥१२२॥ पलायाञ्चक्रिरे लोका मुनिस्तस्थौ तथैव सः । इतोऽप्यवनमत् कुम्भस्थलः प्रणमति स्म तम् ॥१२३॥ स हस्ती पुनरुत्थाय भक्तिमन्थरया दृशा । पश्यन् महर्षि प्राविक्षदरण्यानीमनाकुलः ॥१२४॥ तत्प्रभावाद्भुतं वीक्ष्य प्रणतास्तापसाश्च ते । मुनिना प्रत्यबोध्यन्त जीवतत्त्वोपदेशतः ॥१२५।। तत्र श्रेणिकराजोऽपि तत्तथा गजमोक्षणम् । . तापसप्रतिबोधं च श्रुत्वाऽऽगादभयान्वितः ॥१२६।। भक्त्या वन्दितवन्तं चानन्दयामास पार्थिवम् । सर्वकल्याणकारिण्या धर्मलाभाशिषा मुनिः ॥१२७।। राजापि मुनिमुत्फुल्लनेत्रो विरचिताञ्जलिः । भक्त्याऽपृच्छद् ममाश्चर्यं भगवन् ! हस्तिमोक्षणात् ।।१२८।।