________________
२३८]
[विवेकमञ्जरी नत्वाऽथ नाथं नगरे च गत्वाऽभयो भवार्तभयोपगूढः । आपृच्छते स्म प्रयतो व्रताय गुणैरगाधो मगधाधिनाथम् ॥५॥ न श्रेणिकः प्राह विहस्य वत्स ! त्वं युक्तमेवाभिदधासि किन्तु । साम्राज्यदीक्षां पुरतो गृहाण दीक्षां ग्रहीतुं समयो ममायम् ॥६॥ अथाभयः श्रेणिकमित्युवाच देव ! त्वदाज्ञां शिरसा वहानि । राजर्षिमन्त्यं परमादिश मे वीरो विभुर्वीतभयाधिनाथम् ॥७॥ . त्वत्पुत्रतां प्राप्य पुराणपुण्याज्जगद्गुरुं वीरजिनं च देवम् । न चेद् भवध्वंसिविधि विधास्ये मत्तोऽधमस्तत् क इवापरोऽस्तु ? |८|| नाम्नैव नामाऽस्म्यभयो भवात्तु भूम्नो भुवो भर्तरहं बिभेमि । प्रसीद तद् मां प्रहिणु प्रयामि श्रीवीरमद्याभयदं त्रिलोक्याः ॥९॥ अथोपगृयैनमुवाच पृथ्वीपतिः सुतस्नेहविमोहितात्मा । .. यदा ध्रुवे त्वां परतो व्रजेति व्रतं तदा वत्स ! समाददीथाः ॥१०॥ वज्रेण वज्रं तु यथा तथास्ति वेध्या स्वबुद्ध्या नृपबुद्धिरेषा । ध्यात्वेति धीमानभयोऽथ भूपं व्यजिज्ञपद् देव ! तदेवमस्तु ॥११॥ अथान्यदा हन्त हिमर्तुरासीदूष्मा खरांशोरपि यद्भयेन । निलीयते स्मावटकोटरेषु नारीस्तनाद्रिष्वधिरोहति स्म ॥१२॥ कथैव का देहवतां बतास्मिन्नभोऽपि संकोचमियाय शीतात् । इत्थं न चेत् तत् कथमस्य पारमह्नाय याति प्रभवोऽयमह्नाम् ? ॥१३|| यत्रानुगोसर्गमनर्गलेन शीतेन दूयेत दिवाकरोऽपि । तेनैष पूर्वामपहाय तप्तुं दिशं कृशानो शमभ्युपैति ॥१४॥ प्रियानुरागैघुसृणाङ्गरागैर्माञ्जिष्ठरागैर्मसृणांशुकैश्च । ध्यानैरिवास्मि ध्वनिनः कडारैः शीतार्तिकाले वशयन् सुखानि ॥१५॥ निशासु सन्ध्यासु दिनेषु यस्मिन्नुरःपुर:पृष्ठनिवेशितेन । रोरैर्न रैर्जानुकृशानुभानुत्रयेण शीतं क्रमतो विनीतम् ।।१६।।