________________
[२३३
गुणानुमोदनाद्वारेऽभयकुमारकथा ]
तस्मादतः परं तात ! तथा कुरु यथाऽखिलान् । यातायातपरान् साधून् पश्यामि प्रतिवासरम् ॥८१।। तातादिष्टा स्वयं तेभ्य: सैषा भिक्षां ददत्यथ । दिदृक्षमाणा तल्लक्ष्मांही मुनीनामवन्दत ॥८२॥ द्वादशाब्दे च दिङ्मूढः स महामुनिरन्यदा । उपालक्षि तया तत्रागतस्तल्लक्ष्मवीक्षणात् ।।८३।। तमृर्षि श्रीमती प्राह तत्र देवकुले तदा । त्वं वृतोऽसि मया नाथ ! त्वमेव हि वरो मम ॥८४॥ तदा गतोऽसि मां मुग्धां निर्झर्य स्वेदबिन्दुवत् । क्व यास्यसि मया प्राप्तस्त्वमृणं धारयन्निव ॥८५।। दृष्टनष्टो यदाऽभूस्त्वं तदाद्यपि हि नाथ ! मे । परासोरिव कालोऽगात् तत् प्रसीद भजस्व माम् ॥८६॥ एवं स्थितेऽपि नैष्ठुर्याद् यदि मामवमन्यसे । भूत्वा तदग्निसाद् दास्ये तव स्त्रीघातपातकम् ॥८७॥ राज्ञा महाजनेनान्यैरथोद्वाहाय सोऽर्थितः । तां स्मरन् दैवतीं वाचं श्रीमती परिणीतवान् ।।८८॥ भुञानस्यानिशं भोगान् श्रीमत्या सह तस्य तु । गार्हस्थ्याकीर्तनं सूनुरुत्पेदे क्रमयोगतः ॥८९।। वर्धमानः क्रमेणाथ क्षीरकण्ठत्वमुत्सृजन् । स वक्तुमुल्लसज्जिह्वो राजकीर इवाभवत् ॥१०॥ पुत्रे तावति स प्रोचे श्रीमती मतिमद्वरः । अतः परं सहायस्ते पुत्रोऽस्तु प्रव्रजाम्यहम् ॥९१५.. श्रीमती धीमती तत्रान्तरे ज्ञापयितुं सुतम् ।। सतूलपूलिकां तर्कुमादाय समुपाविशत् ॥९२।।