SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २३४] [विवेकमञ्जरी 5 10 प्रारेभे कर्तनमियं पप्रच्छ च स बालकः । मातः ! किमेतदारब्धं कर्म कारुजनोचितम् ? ॥९३॥ साऽब्रवीज्जात ! ते तात: प्रव्रज्यार्थं गमिष्यति । -- गतेऽस्मिन् पतिमुक्तायाः शरणं तर्कुरेव मे ॥९४॥ बालकोऽपि जगादेवमक्षरैर्लल्लमन्मनैः । बद्ध्वाऽहं धारयिष्यामि कथं यास्यति मे पिता ? ॥९५।। इत्युक्त्वा तर्कुसूत्रेण लालयेवोर्णनाभकः । अवेष्टयत् पितुः पादौ स मुग्धमधुराननः ॥१६॥ जगादाम्बां च मा भैषीः स्वस्था भव भया यतः । बद्धपादः करीवासौ प्रयातु कथमातुरः ? ॥९७|| श्रीमतिपरितप्येवमचिन्तयदहो शिशोः । कोऽपि स्नेहानुबन्धोऽयं मन्मनःपक्षिपाश्यभूत् ।।९८॥ मत्पदोस्तत्कृताः सन्ति यावन्तः सूत्रवेष्टकाः । तावन्त्यब्दानि धास्यामि पुत्रप्रेम्णा गृहस्थताम् ॥१९॥ पादयोस्तन्तुबन्धाश्च गणिता द्वादशाभवन् । गार्हस्थ्ये द्वादशाब्दानि ततः सोऽप्यत्यवाहयत् ॥१००॥ सन्धावधौ च सम्पूर्णे वैराग्येणोररीकृतः । यामिन्याः पश्चिमे यामे स धीमानित्यचिन्तयत् ॥१०१॥ "भवकूपाद् विनिर्गन्तुं व्रतमालम्बरज्जुवत् । मया प्राप्तं च मुक्तं च मग्नस्तत्रास्म्यहं पुनः ॥१०२॥ मनसैव व्रतं भग्नं प्राग्जन्मनि तथाप्यहम् । अनार्यत्वं प्रपन्नोऽस्मि का गतिः स्यादतः परम् ? ॥१०३॥ भवत्विदानीमप्याप्तपरिव्रज्यस्तपोऽग्निना। साक्षात् प्रक्षालयामि स्वं मलिनीभूतहेमवत् ॥१०४॥ 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy