SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २३२] [विवेकमञ्जरी भर्तारं वृणुतेत्यूचुस्तत्र सर्वाश्च बालिकाः । कयापि कोऽपि सर्वाभिर्वराः स्वरुचिवविरे ॥६९॥ श्रीमत्युवाच सख्योऽसौ वृतो भट्टारको मया। तत साधु वृतं साधु वृतमित्याह देवता ॥७०।। - रत्नवृष्टिं च तन्वाना देवता गजितं व्यघात् । तद्भीताऽलीयत मुनेः श्रीमती तस्य पादयोः ॥७१॥ उपसर्गोऽनुकूलोऽयं मह्तापथ्यमत्र धिक् । इति ध्यात्वाऽन्यतः सोऽगादनगारशिरोमणिः ॥७२॥ आदित्सू रत्नवृष्टिं तां राजा देव्या न्यवार्यत । अस्यै वरणके दतं द्रव्यमेतद् ब्रुवाणया ॥७३।। ततश्च तद् धनं सर्वमाददे श्रीमतीपिता । सर्वे स्वं स्वं ययुः स्थानं तदा सायमिवाण्डजाः ॥७४।। अथोद्वोढुमढौकन्त श्रीमती बहबो वराः । श्रीमती त्वाह पितरं महर्षिः स वृतो मया ॥७५।। मम तद्वरणेऽदाच्च द्रव्यं तद्गृह्यदेवता । तद् द्रव्यमाददानेन त्वयाऽप्यनुमतं हि तत् ॥७६।। तत् तस्मै कल्पयित्वा मां नान्यस्मै दातुमर्हसि । सकृत् कन्याः प्रदीयन्ते इति तात ! न किं श्रुतम् ? ॥७७॥ श्रेष्ठ्यूचे स कथं प्राप्यो न ह्येकत्रावतिष्ठते । अलिः पुष्पमिव स्थानमातिष्ठति नवं धवः ॥७८॥ स किमायास्यति न वा प्राप्तोऽपि ज्ञायते कथम् ? । किं नाम तस्याभिज्ञानं कति नायान्ति भिक्षवः ? ॥७९॥ श्रीमत्यूचे मया तात ! तदा गर्जितभीतया । दृष्टं लक्ष्मास्ति तत्पादे वानर्येव विलग्नया ॥८०॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy