________________
गुणानुमोदनाद्वारेऽभयकुमारकथा ]
राजोचे श्रेणिको नाम राजास्ति मगधेश्वरः । पारम्पर्यागता मैत्री मत्कुले मतकुलेऽपि च ॥९॥ द्रागुन्मीलितमुत् प्राहार्द्रकिर्मन्त्रिणमस्ति ते । प्रभोः कोऽपि सुतप्रष्ठस्तेन मैत्रीचिकीरहम् ॥१०॥ मन्त्र्यूचेऽस्ति धियां पात्रं पञ्चमन्त्रिशताधिपः । अभयो नाम तनयः श्रेणिकस्य महीपतेः ॥ ११ ॥
दाक्ष्यदाक्षिण्यनैपुण्यपुण्यपण्यकलामयम् । नाभयं निर्भयं विश्ववित्तं वेत्सि कुमार ! किम् ? ॥१२॥ आर्द्रकेन्द्रोऽपि पुत्रं स्वमभये सौहृदार्थिनम् । ऊचे सन्मार्गसंलग्नः कुलीनोऽसि ममाङ्गज ! ॥१३॥ अवाप्य पितुरादेशं स्वमनोरथसंनिभम् । जनान्तिकेन सचिवं तमुवाचार्द्रकासुतः ||१४|| मामनापृछ्य मा यासीः श्रोतव्यं गच्छता त्वया । अभयं प्रति मे स्नेहसोमसूत्रसमं वचः ॥१५॥ मन्त्र्यप्येवमिति प्रोचे कुमारं सुकुमारगीः । ययौ राज्ञा विसृष्टश्च वेत्रिदर्शितमाश्रयम् ॥१६॥ परेद्युर्मणिमाणिक्यप्रभृति प्राभृतं नृपः ।
अर्पयित्वा स्वपुरुषं व्यस्राक्षीद् मन्त्रिणं च तम् ॥१७॥ अथाकिः कुमारोऽपि हस्ते तस्यैव मन्त्रिणः । प्रैषीद् विद्रुममुक्तादिवस्तून्यभयहेतवे ॥१८॥ स पुमान् मन्त्रिणा सत्रा गत्वा राजगृहे पुरे । प्राभृतान्यर्पयामास श्रेणिकायाभयाय च ॥१९॥ किञ्चाभयकुमाराय मन्त्रिणेऽवाचि वाचिकम् । यदाककुमारस्ते सख्यसौभ्रात्रमिच्छति ||२०||
[ २२७
5
10
15
20