________________
२२८]
[विवेकमञ्जरी
अथ कर्मजया बुद्ध्याऽभयश्चिन्तितवानिति । विराधितव्रतत्वेन जातोऽनार्येषु स ध्रुवम् ॥२१॥ नूनमासन्नभव्यः स महात्मा राजपुत्रकः । अभव्यदूरभव्यानां न मया सख्यकामना ॥२२॥ तदुपायेन केनापि कृत्वा तं परमार्हतम् । आप्तो भवामि स ह्याप्तो योऽग्रिमो धर्मवर्त्मनि ॥२३॥ तस्याककुमारस्य तीर्थकृद्विम्बदर्शनात् । उत्पद्यते यदि पुनर्जातिस्मरणमुत्तमम् ॥२४॥ तत् प्राभृतच्छलेनार्हत्प्रतिमां प्रेषयाम्यहम् । चिरं तद्रत्नघटितां महाचार्यप्रतिष्ठिताम् ॥२५॥ इत्यादिनाथदेवस्याप्रतिमां प्रतिमां व्यधात् । पेटामध्ये समुद्गस्थां श्रेय:कामगवीमयम् ॥२६॥ ततश्च धूपदहनघण्टिकादीनि तत्पुरः । मुमोच देवपूजोपकरणान्यखिलान्यपि ॥२७॥ ददौ च तालकं द्वारे मुद्रयित्वाऽभयः स्वयम् । श्रेणिकोऽथाकेन्द्रस्य मन्त्रिणं तं व्यसर्जयत् ॥२८॥ अभयोऽपि हि तां पेटां तस्य हस्ते समार्पयत् । तं चोवाचेति सत्कृत्य वाचा स्वादुसुधामुचा ॥२९॥ एषाऽऽर्दककुमारस्य पुरः पेटोपढौक्यताम्।। मदीयं तस्य मद्बन्धोर्वाच्यमेतच्च वाचिकम् ॥३०॥ रहस्येकाकिना भूत्वोन्मुद्र्य पेटामिमां स्वयम् । तदन्तर्वस्तु संप्रेक्ष्यं दर्शनीयं न कस्यचित् ॥३१॥ इति कर्तव्यमित्युक्त्वा स पुमान् स्वपुरं गयौ । उपायनान्यार्पयच्च स्वस्वामिस्वामिपुत्रयोः ॥३२॥
15