________________
२२६]
[विवेकमञ्जरी
अल्पं मासोषितस्यैतदित्यंशं व्यतरः परम् । घृतादिश्लाघ्यमाय तस्मै पाश्चात्यमप्यदाः" ॥१९८॥ आकर्यैवं शुभाकणिसकर्णः प्रभुदेशनाम् । उन्मीलद्विषयोद्वेगः स संवेगमुपागमत् ॥२००॥ गृहभारं सुते ज्येष्ठे निवेश्य कृतपुण्यकः । श्रीवीराद् व्रतमादाय तप्त्वा सद्गतिभागभूत् ।।२०१।। ॥ इत्यभयकुमारकथायां वैनयिकीबुद्धिनिबन्धनं द्वितीयः प्रकाशः ॥
5
$$ इतश्चाईकनामास्ति देशो मध्येपयोनिधि । तत्रादकपुरस्वामी भूमानाईक इत्यभूत् ॥१॥ अजनिष्टाकादेवीकुक्षिकासारकैरवम् । तस्याककुमाराख्यः कुमारो मारसंनिभः ॥२॥ तस्य चाकराजस्य बभूव श्रेणिकस्य च । पारम्पर्यगता प्रीतिश्चन्दकैरवयोरिव ॥३॥ अन्यदाः श्रेणिकः प्रैषीद् निजामात्यमुपादकम् । समर्प्य प्राभृतं प्राज्यं सौहदद्रुमदौर्हृदम् ॥४॥ स्वप्रभुप्राभृतं निम्बकम्बलप्रभृति द्रुतम् । मन्त्री गत्वोपनिन्ये तदाददे चाईको नृपः ॥५॥ महत्या प्रतिपत्त्या तं संभाव्याईकभूविभुः । पप्रच्छ कच्चित् कुशलं मद्वन्धोर्मगधेशितुः ? ॥६॥ स्वस्वामिकुशलोदन्तैमन्त्री पीयूषपेशलैः। तद्गात्रयष्टिमतनोज्जातरोमाञ्चपल्लवाम् ॥७॥ अपृच्छदाकिस्तात ! को नाम मगधाधिपः ? । तव येनेदृशी प्रीतिर्मधोरिव मनोभुवा ? ॥८॥