________________
गुणानुमोदनाद्वारेऽभयकुमारकथा ]
अभयानुज्ञया सोऽथ प्रेयसी : प्रेमभूयसीः । ताः समादाय पञ्चापि निजं मन्दिरमाययौ ॥१८६॥ सप्तार्चिरिव रोचिष्णुर्लघु प्राञ्चद्वियोगतः । प्रियाः कुर्वन् प्रियाः सप्त दीप्यते स्म स तेजसा ॥ १८७॥ मोहान्धतमसध्वंसी वैभारगिरिमूर्धनि । उदेति स्म तदा वीरजिनेश्वरदिनेश्वरः ॥१८८॥ `आगाद् गुणमणिश्रेणिक्षोणिः श्रेणिकभूपतिः । अभयः कृतपुण्यश्च तत्र वन्दारवः सुराः ॥ १८९ ॥ सर्वोपलम्भसिद्धार्थः सिद्धार्थकुलकौस्तुभः । स दम्भशैलदम्भोलिर्देशनां तत्र निर्ममे ॥ १९०॥ अथावसरमासाद्य विध्वस्तवृजिनं जिनम् । विज्ञो विज्ञपयामास कृतपुण्यः कृताञ्जलिः ॥१९१॥ जगन्नाथ ! कथङ्कारमुपकारपरोऽपि सन् । निर्मन्तुरपि संप्रापं संपदो विपदन्तराः ? ॥ १९२॥ 'जगाद दशनज्योत्स्नापूरपूर्णसभं प्रभुः । पूर्वे जन्मन्यभूर्वत्स ! वत्सपालकबालकः ॥१९३॥ नित्यदौर्गत्यनिर्वित्तः परमान्नमयं महम् ।
पुरे निरीक्ष्य क्षैरेयीमयाचस्तव मातरम् ॥१९४॥ अम्बा तव निरालम्बा सर्वसम्पत्तिदुःखिता । रुरोद, प्रतिवेशिन्यः क्षीरादि कृपया ददुः ॥१९५॥ संस्कृत्य पायसं पात्रे परिवेश्य तवाम्बिका । बहिर्ययौ मुनिश्चागाद् मासक्षपणपारणो ॥१९९॥ स्थानादुत्थाय हर्षाश्रुरोमाञ्चकवचाञ्चितः । भाजनात् पायसस्यास्मै भागमेकमदात्तदा ॥१९७॥
[ २२५
5
10
15
20