________________
२२४]
[विवेकमञ्जरी
लीलावचालभूतालवालालम्बितपाणयः । पूर्वपत्न्यः समाजग्मुः कृतपुण्यस्य ता अपि ॥१७४॥ पत्युः सदृक्षं तं यक्षं दृष्ट्वा स्मृत्वा च सास्रवः । सवेपथु सरोमाञ्चमवोचन्त स्मरातुराः ॥१७५॥ भर्तकर्तृकमस्माकं तच्चेत् स्यात् किलकिञ्चितम् । मोदकांस्तत्परोलक्षान् दास्यामो यक्ष ! ते मुदा ॥१७६।। दिक्षुः चक्षुः क्षिपन्तीभिस्ताभिदृष्टश्च वल्लभः । समधत्त च पञ्चापि समं पञ्चशरः शरान् ॥१७७॥ तात तातेति जल्पन्तः प्रमोदात् फुल्ललोचनाः । यक्षाङ्कपालीपल्यङ्कमध्यूषुस्तनयास्तदा ॥१७८॥ कृतपुण्यस्ततः प्राह दिष्ट्यैता मम वल्लभाः । इमे रम्याः कुलव्योमभानवः सूनवश्च मे ॥१७९।। देशत्यागे समादिश्य स्थविरां स्थविराशयः । अभयस्तास्तदायत्ता रमा रामाश्च निर्ममे ॥१८०॥ आगादनङ्गसेनापि प्रियसब्रह्मचारिणम् । यक्षं वीक्ष्य स्मरोन्मादगद्गदं निजगाद च ॥१८१॥ शुभानां शकुनस्वप्नप्रभृतीनामिदं प्रभो ! त्वदीक्षणमभूत् पुष्पं फलमस्तु तदीक्षणम् ॥१८२॥ इष्टस्तयाऽष्टमीचन्द्रभालयाऽथ निभालितः।। अतिप्रगल्भमभ्येत्य प्रीत्या चैवमभाषत ॥१८३॥ जीवितेश ! बहुक्लेशं देशे देशे पुरे पुरे । मया गवेषितः किन्तु नाप्तोऽसि स्वल्पभाग्यया ॥१८४॥ परं पुरुषमाश्रित्य योऽभवद् न कदाचन । वेणीदण्डस्य बद्धस्य मोक्षः सोऽस्तु त्वयाऽधुना ॥१८५।।