SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ [२२१ गुणानुमोदनाद्वारेऽभयकुमारकथा] ज्ञात्वा तदाग्रहं ताभिर्बद्धा वाससि मोदकाः । क्षिप्त्वाऽन्तर्मणयो मुक्तास्तदीयोच्छीर्षके तदा ॥१३८॥ सुखसुप्तः सशय्योऽपि तत्र देवकुले निशि । अमोच्यत स चेटीभिर्दुष्टस्थविरया रयात् ॥१३९।। स एव तत्क्षणात् तत्र प्राच्याः सार्थः समाययौ । अनेदीयोऽपि नेदीयः कुरुते भवितव्यता ॥१४०॥ निद्राविरामे स ज्ञात्वा वृद्धाव्यापारमीदृशम् । अनुपार्जनमात्मानं यावज्जुगुप्सते मुहुः ॥१४१॥ प्राच्याः सार्थः समायात इत्युपश्रुत्य तुष्टया। शुद्धये प्रहितः पत्न्या पदातिस्तावदागमत् ॥१४२॥ भो भद्र ! कुशलं तस्याः किं च गर्भेऽभवत् तदा । पृष्टोऽनेनेति हृष्टोऽस्मै पत्तिः पुत्रमचीकथत् ॥१४३॥ मोदकांस्तानुपादाय द्रव्यानर्जनदुर्मनाः । स पश्चात्पातिभिः पादैराययौ निजमन्दिरम् ॥१४४॥ अभ्युत्थानादि सा तस्मै चकारोचितमञ्जसा । संपद्यापदि वा पत्यौ समाः खलु कुलस्त्रियः ॥१४५॥ सा भक्ता भर्तुरभ्यङ्ग मज्जनाय चकार च । सुतोऽध्ययनशालाया भोजनायाजगाम च ॥१४६।। एकमाकृष्य सा तस्मै ददौ शम्बलमोदकम् । स तं कवलयन्नेव जगाम च्छात्रमण्डलीम् ॥१४७॥ आदत्त दन्तसम्पर्काद मणि पाणौ स भास्वरम् । चित्रीयमाणश्छात्रेभ्यो दर्शयामास चोत्सुकः ॥१४८॥ प्रत्येकं स मणिर्वस्तु किमेतदिति जल्पताम् । तेषां पाषाणसंचारं संचचार करात् करे ॥१४९॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy