________________
२२०]
[विवेकमञ्जरी
श्रीयोगः सुदृशां योगः स्वयंवरमिदं द्वयम् । उपस्थितमतो व्योमप्रसूनैः किं विकल्पनैः ? ॥१२६॥ ततस्तामवदद् मातर्न स्मरामि किमप्यदः । . स्थविराऽसि त्वमेवेत्थमितिहासे प्रगल्भसे ॥१२७|| मया तु मातुरादेशश्चक्रे सैष शिखामणिः । सर्वकषा हि गुर्वाज्ञा दृश्यते चेदवज्ञया ॥१२८॥ यथैव ताश्चतस्रोऽपि परिणेतरि भर्तरि । अवर्तन्त तथा तस्मिन् प्रेमस्थेमवशंवदाः ॥१२९॥ पुत्रा गोत्रजनक्रोडक्रीडावनकुरङ्गाः । उदपद्यन्त चत्वारस्तासां चतसृणामपि ॥१३०॥ भोगैः क्षणमिव क्षीणा तस्य द्वादशवत्सरी । कालो हि सुखनिर्मग्नैर्गच्छन्नपि न लक्ष्यते ॥१३१॥ स्थविराः स्वार्थसंपत्तिकृतार्थम्मन्यमानसा । एकान्तवस्त्यमेकान्ते वधूवर्गमभाषत ॥१३२।। संजाता सुतसम्पत्तिरिदानी मुच्यतामयम् । नादरः सहकारेऽपि पुंसामात्तफलोत्करे ॥१३३॥ अभ्यधुस्तास्त्वया दत्तः कान्तः कान्तगुणैकभूः । भुक्तश्चस्माभिरप्येष मातर्न त्यागमर्हति ॥१३४॥ बभाषे स्थविरा रोषभ्रकुटिस्थपुटानना। ममादेशविपर्यासो हलाः ! कोऽप्येष वो नवः ॥१३५॥ माऽऽदत्तां वित्तमस्माकं भूपाल इति भीतया । कश्चिदप्ययमानीतो मया सन्तानहेतवे ॥१३६।। इदानीं सूनवोऽभूवल्लक्ष्मीरक्षणयामिकाः । तत् किमेतेन निष्पीतरससारेक्षुबन्धुना ? ॥१३७।।
15