________________
[२१९
10
गुणानुमोदनाद्वारेऽभयकुमारकथा ]
उदन्वति विपन्नोऽभूदुत्पातैः पोतभङ्गतः मा गाद् राजकुले लक्ष्मीरतो वार्ता निगोप्य ताम् ॥११४॥ सार्थं तमेत्य सा किञ्चिच्चिन्तयित्वा स्वचेतसि । कृतपुण्यकमुत्थाप्यानिनाय निजमन्दिरम् ॥११५॥ विशेषकम् ।। स्नुषाचतुष्टयस्यापि पश्यतस्तत्र निस्त्रपा । तदीयं कण्ठमालम्ब्य रुदत्येवमवोचत ॥११६।। हा वत्स ! बहुवात्सल्य ! विहाय निजमातरम् । एतावन्ति दिनानि त्वं क्व यातोऽसि क्व च स्थितः ? ॥११७॥ निरालम्बा धरालम्ब ! तवाम्बाऽस्मि न संशयः । त्वं पुत्र ! जातमात्रोऽपि हृतः केनापि पाप्मना ॥११८॥ नामतः श्रीनिवासोऽसि त्वद्वियोगदवानले । पतिता प्राप यं तापमसौ कस्यापि मा स्म भूत् ॥११९॥ सङ्गमोऽद्यैव दैवज्ञैः सदैव फलशालिना । रात्रौ कल्पां हियालोकस्वप्नेन च तवोदितः ॥१२०।। अहमासेदुषी सार्थं लेभे त्वामतिदुर्लभम् । भाग्यैरुज्जागरैर्जन्तूनभ्यागच्छति वाञ्छितम् ॥१२१॥ इदानीं तावकीनस्य ज्येष्ठबन्धोविपत्तितः। तव संपत्तितश्चास्मि शोकहर्षसमाकुला ॥१२२॥ बन्धुवध्वश्चतस्रोऽमूरमूश्च विपुलाः श्रियः । एता नद्य इवाम्भोधिमगाधं त्वामुपस्थिताः ॥१२३।। तदेतासामसामान्यतारुण्यमहिमाजुषाम् । श्रीणां स्त्रीणां च भोगेन सुभगङ्करणो भव ॥१२४॥ इति श्रुत्वोक्तिवैचित्र्यमेतस्याः कृतपुण्यकः । विस्फुरद्विस्मयस्मेरचेतोवृत्तिरचिन्तयत् ॥१२५।।
15