________________
२१८]
[विवेकमञ्जरी
अथ निश्चित्य प्रथमं मनसा परतो दृशा । उत्सेकेन ततोऽङ्गेन प्रत्युद्यातः पतिस्तया ॥१०२॥ तस्य तेनोपचारेण विहितेन तया समम् । अमृतेनेव निर्वाणः पूर्वः परिभवानलः ॥१०३।। विनीता तेन सा रात्रौ पाठिता भोगमात्रिकाम् । गर्भरत्नं बभारान्तः प्रबोधमिव देहिनाम् ॥१०४।। स कदाचित् प्रियामूचे मदन्यो नास्ति मूढधीः । निष्फला मयि शास्रार्थदृष्टिर्वृष्टिरिवोषरे ॥१०५।। पितरौ यद् मयाऽगाधे क्षिप्तौ दुःखमहार्णवे । धनं निधनमानीतं पितृपर्यायसञ्चितम् ॥१०६॥ . अलमालप्य लोलाक्षि ! यत्तवोपकृतं पुनः । किमन्यत् त्वं सुधासिन्धुः कालकूटार्णवस्त्वहम् ॥१०७|| अधुना तु धुनात्येष दुष्टदौर्गत्यकुञ्जरः । च्युतो हस्तात् प्रशस्तास्ये ! यतो मे विभवाङ्कुशः ॥१०८॥ कुर्वे सुवाणि ! वाणिज्यं धनं यद्यस्ति किञ्चन । इति पृष्टा प्रिया हृष्टा जगाद दयितं ततः ॥१०९॥ अनल्पोऽयं समाकल्पः सुस्वाधीनं धनं हि वः । दीनाराणां सहस्रश्च गृह्यतामनुगृह्यताम् ॥११०॥ तदादाय स लाभाय क्रीत्वा वस्तु यथोचितम् । प्राचीप्रस्थितमन्विष्य स्फीतार्थं सार्थमाययौ ॥१११।। तत्रानुयायिनी पत्नी निवर्त्य प्रीतमानसः ।
असौ विनिद्र एवास्ते सुप्तो देवकुले क्वचित् ॥११२॥ 88 इतोऽस्ति तत्र वास्तव्या काचिदिभ्यकुटुम्बिनी ।
स्थविरा स्थेयसी तस्याः सूनुः सूनुविवर्जितः ॥११३।।
20