SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ [२१७ गुणानुमोदनाद्वारेऽभयकुमारकथा] गण्यतां कृतपुण्योऽपि निर्धनैकशिरोमणिः । इत्युक्ताऽनङ्गसेनापि प्रत्युवाच वचस्विनी ॥९०॥ मातातः परं माता मदीया नितरामसि । अप्रगल्भं प्रगल्भापि यदेवं खलु जल्पसि ॥११॥ ऊढप्रौढिभिरेतस्य बताढ्यङ्करणैर्धनैः । पर:कोटिभिरायातैः सौहित्यं किं न तेऽभवत् ? ॥१२॥ गुणैरेतस्य मे चेतः केतकोदरसोदरैः । वासितं यत् तदन्यत्र गन्तुमुत्सहते न हि ॥९३।। इति निर्बन्धमेतस्याः सम्यग् मनसि कुर्वती । जज्ञेऽसौ जरती जाग्रत्तृष्णा कृष्णानना ततः ॥९४॥ सावज्ञां कारयामास तत्र दासीभिरन्वहम् । नार्धं ददाति यत्कोऽपि नि:श्रीके सवितर्यपि ॥१५॥ तदा तासामवज्ञानां निदानमथ चिन्तयन् । अक्काकर्तृकमेवेति बुबुधे स बुधः स्वयम् ॥९६।। अनुक्तहुताशनेन हृदि दंदह्यते स्म च । स्मरोन्मादपरीणामं जनो जानाति पृष्ठतः ॥१७॥ अथ मानी विनिःसृत्य जगाम निजधामनि । स प्रियां च परिम्लानां वीक्षते स्म तदन्तरे ॥९८॥ स्वं तस्य पश्यतो धाम श्यामायितमुखत्विषः । धीरस्यापि पदं प्रापुर्नेत्रयोर्बाष्पबिन्दवः ॥९९॥ सापि दूरात् तमायान्तमवलोक्य विकस्वरा । विकल्पान् कल्पयामास सरोमाञ्चं सुलोचना ॥१००॥ दिष्ट्याऽयं किं ममाभ्येति पाणिपीडनपण्डितः । यद्वा भाग्यपरीपाको मादृशामीदृशः कुतः ? ॥१०१।।
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy