________________
२१६]
[विवेकमञ्जरी
5
अतिप्रसन्नवक्त्राब्जा सा चकोरविलोचना । जगाद दयितादेशविलसत्पुलकाङ्करा ॥७॥ सखि ! कान्तस्य तस्याज्ञा मम सीमन्तखेलिनी। किमाचक्षे पुनः क्षेमं दैवे प्रातीपिके सति ? ॥७९॥ तथातिवत्सलस्तातस्ताहक श्वश्रः प्रियंवदा । जन्मतुभवपि दिवं धिग् धिग् मे मन्दभाग्यताम् ॥८०॥ श्वशुराभ्यां श्रियोऽप्येताः प्रेषं प्रेषमशेषिताः । प्रियस्य तनयस्यार्थे धनं को हि धनायति ? ॥८१॥ अस्ति पित्रा वितीर्णं मे किञ्चिदङ्गविभूषणम् । तत् त्वं गृहाण भूयाद् मे शीलमेवाङ्गभूषणम् ॥८२॥ इत्युदीर्य समुत्तार्य तनोराभरणानि सा । अर्पयामास तान्येतत् प्रीत्यै कुलमृगीदृशाम् ॥८३॥ भुजिष्या तान्युपादाय स्मियस्मेरमानसा । चिन्तयन्ती तदौचित्यं निजमन्दिरमाययौ ॥८४॥ अनङ्गसेनया सार्धं कृतपुण्यस्य पश्यतः । उपनिन्ये च कुट्टिन्या यथादृष्टं जगाद च ॥८५।। अङ्गस्य यदलङ्गारः प्रेषितः कुलयोषिता । उदक्तस्योदपानस्य तदेषा तलमृत्तिका ॥८६।। अलमेतेन कौसुम्भरसनिर्यासरूपिणा । चिन्तयित्वेति तत्पन्यां कृपालुरथ कुट्टिनी ॥८७॥ तदलङ्कारसर्वस्वमेकावल्यादिसंयुतम् । दीनाराणां सहस्रेण सह प्रीत्याऽऽर्पयत् पुनः ॥८८॥ विशेषकम् ॥ कुट्टिन्या कामिनां मान्या दुहिताऽभिहिता रहः । पुत्रि ! पण्यपुरन्ध्रीणां निर्धनेन जनेन किम् ? ॥८९॥
15
२०