SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ [२१५ गुणानुमोदनाद्वारेऽभयकुमारकथा] अथ ताहक्सुहृद्वर्गसंसर्गेण निरर्गलः । स पण्यकामिनीदर्शं यथाकाममकामयत् ॥६६।। स क्षणात् तैरुपाध्यायैः किञ्चिदध्यापितस्तथा । यथा यातुं पितुर्मातुर्न सस्मार स्मरातुरः ॥६७।। अन्यदाऽनङ्गसेनाख्यां विख्यातां पण्ययोषितम् । सरसां कामयामास पीयूषसरसीमिव ॥६८।। आनन्दमकरन्दैः स दूरमन्यातिशायिभिः । तृष्यति स्म न तां प्राप्य रोलम्ब इव मालतीम् ॥६९॥ कोटिशः कुट्टिनीकूटपादावर्तेरवर्तत । रसातलतलस्थानां तद्धनानामुदञ्चनम् ॥७०॥ तस्य द्वादश वर्षाणि दिनानीवातिचक्रमुः । कालः स्यादतिजङ्घालस्तन्वङ्गीसङ्गिरङ्गिणाम् ॥७१॥ अक्षीयत ततो लक्ष्म्या चिरसञ्चितयापि च । दुःखिताभ्यां पितृभ्यां च देवभूयमभूयत ॥७२।। कुट्टिनी तदपि क्रूरा पुनरेव धनाशया । प्रेषयामास सा चेटी चतुरोक्तिपटीयसीम् ॥७३॥ निकेतं कृतपुण्यस्य सातिवेगादुपाययौ । भित्तिगोपुरसोपानभ्रंशाख्यातधनक्षयम् ॥७४॥ प्राणेशमङ्गलाशंसिस्थौलकौसुम्भवाससम् । नव्यावतीर्णतारुण्यां साऽपश्यत् तत्र योषितम् ॥७५।। कृतपुण्यस्य पत्नीति तां निश्चित्य कुतश्चन । अवोचत नता चेटी वाचं शिक्षाक्रमोचिताम् ।।७६।। कल्याणि ! तव कान्तेन प्रहिता स्मि त्वदन्तिकम् । विज्ञातुं कुशलोदन्तं धनं चानेतुमञ्जसा ॥७७||
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy