________________
[विवेकमञ्जरी
२१४]
गान्धर्वेण विवाहेन परिणीयाथ चेल्लणाम् । सुलसा-नागयोर्गत्वा राजाऽऽख्यत् तत्सुतान् मृतान् ॥५४॥ नृपात् तौ दम्पती श्रुत्वा सुतोदन्तममङ्गलम् । मुक्तकण्ठमकुण्ठार्तिदीनौ रुरुदतुश्चिरम् ॥५५।। अथानित्यकथाभिस्तावाचार्य इव तत्त्ववित् । अभयो बोधयामास श्रेणिकेन सहागतः ॥५६॥ ततश्च चेल्लणदेव्या समं मगधभूपतिः । निर्विघ्नं बुभुजे भोगान् पौलोम्येव पुरन्दरः ॥५७॥ त्रयोऽस्यास्तनवोऽशोकचन्द्राख्यस्तेषु कूणिकः ।
ज्यायान् हल्लो द्वितीयस्तु विहल्लोऽभूत् कनिष्ठकः ॥५८|| $$ इतश्च नगरे तत्र सार्थवाहो धनावहः ।
आसीदसीमविभवो द्वितीय इव यक्षराट् ॥५९॥ भद्रेति दयिता तस्य ततो गर्भमधारयत् । कृतपुण्य इति प्रीत्या व्याख्यातमखिलैर्जनैः ॥६०॥ असूत सा सुतं काले कालेयच्छविभासुरम् । सार्थवाहो महोत्साहस्तदा चक्र महोत्सवम् ॥६१॥ पुरस्कृत्य जनस्योक्तिं पूज्यपूजापुरस्सरम् । कृतपुण्यक इत्यस्य पित्तृभ्यां नाम निर्ममे ॥६२॥ क्रमेण वर्धमानोऽसौ स्पर्धमानो नवेन्दुना। कलाकलापं जग्राह चित्रं दोषाकरस्तु न ॥६३॥ धन्यम्मन्यां तदीयाप्त्या कन्यां सुकुलसंभवाम् । पितृभ्यामुत्सवेनैष तरुणः परिणयितः ॥६४।। तमथो साधुसंसर्गाद् विषयेषु पराङ्मुखम् । न्ययुक्त शठगोष्ठीषु श्रेष्ठी तद्भोगकौतुकी ॥६५॥