________________
[२१३
गुणानुमोदनाद्वारेऽभयकुमारकथा]
रथमारोपयदथ सुज्येष्ठा चेल्लणां पुरः । स्वयं चागात् समानेतुं द्रुतं रत्नकरण्डिकाम् ॥४२॥ न स्थातुमुचितं वैरिगृहे चिरमितीरिभिः । प्रेरितोऽनुचरैर्लात्वा चेल्लणां ववले नृपः ॥४३॥ सुज्येष्ठाऽऽगादितो यावत् तावत् तं मगधेश्वरम् । न ददर्श घनच्छन्नमिव चन्द्रचकोरिका ॥४४॥ तदा चाऽपूर्णकामत्वाद् भगिनीहरणादपि । साऽरटद् मुष्टमुष्टाऽस्मि हियते हन्त ! चेल्लणा ॥४५॥ ततश्चेटकमुद्यान्तं रथी वैरङ्गिको रयात् । उवाच कोऽयमाक्षेपो मयि सत्यपि नाथ ! ते ? ॥४६|| कन्याप्रत्याहृतावन्वागतो यातः सुरङ्गया। सौलसेयानयं सर्वानेकेनैवेषुणाऽवधीत् ॥४७॥ तद्रथै रुद्धमार्गोऽस्थादथ वैरङ्गिको रथी । सुरङ्गान्तमगात् तूर्णं श्रेणिकस्तु सचेल्लणः ॥४८॥ सुज्येष्ठा विषयाकाङ्क्षाविरक्ताऽऽपृच्छ्य चेटकम् । समीपे चन्दनार्यायाः परिव्रज्यामुपाददे ॥४९॥ सुज्येष्ठे ! इति जल्पन्तं श्रेणिकं त्वाह चेल्लणा। सुज्येष्ठा नागता देव ! तत्कनिष्ठाऽस्मि चेल्लणा ॥५०॥ श्रेणिको व्याजहारैतां नायासोऽभूद् मुधा मम । सुभ्र ! त्वमसि सुज्येष्ठा तस्या न खलु हीयसे ॥५१॥ चेल्लणा पतिलाभेन भगिनीवञ्चनेन च । श्रेणिकस्तु तदावाप्त्या सौलसेयव्ययेन च ॥५२॥ कलितौ हर्ष-शोकाभ्यां तौ रथप्रजवादथ । ईयतुर्नगरं पश्चात् कृतकार्योऽभयोऽपि हि ॥५३।। युग्मम् ।।