________________
२२२]
[विवेकमञ्जरी
बालः कन्दलितानन्दः पाणिनाऽऽन्दोलयन् मणिम् । रममाणः क्रमेणागादेकं कान्दविकापणम् ॥१५०॥ तत्र तस्य मणिः पाणेरन्तुपात्रे पपात च । तदन्तुकं तु धवलं द्वेधाभावमवाप च ॥१५१॥ कन्दुवित्तस्तमालोक्य जलकान्तोऽयमित्यमुम् । निश्चित्य चेतसा धूर्तस्तमेवं बालमब्रवीत् ॥१५२।। नित्यं दास्यामि ते पूपानेतस्मादश्मनः प्रति । इति विप्लाव्य तं बालं कन्दुवित्तस्तमाददे ॥१५३।। हस्तिरत्नमथो नद्यां सिञ्चन्सेचनको वपुः । तदानीं पादयोर्नद्धस्तन्तुना जलजन्तुना ॥१५४|| गजवर्गोऽथ संभ्रातः समाचख्यौ क्षितीशितुः । निशातबुद्धिवर्धिष्णोरयं चाभयमन्त्रिणः ॥१५५।। ततोऽभयकुमारेण भाण्डागारे गवेषितः । जलकान्तः परं नाप्तो नानारत्नौघनिद्भुतः ॥१५६।। मा भूदन्याहितं हस्तिरत्नस्येति कृतत्वरः । पटहेन महीनाथः सर्वत्रैवमघोषयत् ॥१५७॥ जलकान्तमणिं वेगाद् यः कश्चिदुपढौकयेत् । परिणेता सुतामर्धराज्योपेतां स भूपतेः ॥१५८॥ स्फुटत्प्रमोदकन्देन कन्दुवित्तेन डिण्डिमः । स्पृष्टः सत्वरमागत्यजलकान्तश्च ढौकितः ॥१५९॥ मणिविघटयाञ्चक्रं जलमूर्जस्वलप्रभः । ज्ञातमन्तुरिवानेशत् तन्तुः स्थलभयातुरः ॥१६०।। रेमे स्तम्बेरमः स्वैरं कुशली नृपवेश्मनि । कन्दुवित्तस्य चित्तेऽथ स्फारः फलमनोरथः ॥१६१।।