SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २१०] [विवेकमञ्जरी कुण्डनामाधिनाथस्य नन्दिवर्धनभूभुजः । श्रीवीरनाथज्येष्ठस्यज्येष्ठा दत्ता यथाक्रमम् ॥६॥ सुज्येष्ठा चिल्लणा चापि कुमार्यावेव तस्थतुः । रूपश्रियोपमाभूते ते मिथो बिम्बिते इव ॥७॥ कलाकलापकुशले श्रुतार्थोपनिषद्विदौ । मूर्ती इव सरस्वत्यास्ते रेमाते परस्परम् ॥८॥ अपरेधुश्च सुज्येष्ठा-चिल्लणाभ्यामलङ्कृतम् । कन्यान्तःपुरमभ्यागादेका स्थविरतापसी ॥९॥ सा च व्याचष्ट धर्मं स्वं मिथ्यात्वद्रुमसारणिः । उत्फुल्लगल्लमज्ञानपर्षदीव तयोः पुरः ॥१०॥ सुज्येष्ठा तु गुणश्रेष्ठा तस्या धर्मं निराकरोत् । श्रुतकूपनिपानाभैर्वचोभियुक्तिवर्मितैः ॥११॥ स्वस्वामिनीजयोन्मत्तास्तामन्तःपुरचेटिकाः । उत्तालतुमुलाः कण्ठे गृहीत्वा निरवासयन् ॥१२॥ उपादातुं गता दातुं पतितेवाथ तापसी । पूजार्थिन्यागता सैवं प्रत्युतानर्थमासदत् ॥१३।। यान्ती च तापसी दध्याविमां वैदुष्यगर्विताम् । भूयसीषु सपत्नीषु दुःखपात्रीकरोम्यहम् ॥१४॥ सुज्येष्ठारूपमित्येषा लिखित्वा चित्रपट्टके । श्रेणिकायोपनिन्येऽथ गत्वा राजगृहे पुरे ॥१५।। तां दृष्ट्वा लिखितां रूपमुषितामरनायिकाम् । राजा राजगृहाधीशः प्राशंसद् धूनयन् शिरः ।।१६।। अपृच्छच्च शुभे ! केयं किंकुला कस्य नन्दिनी । कुमारी परिणीता वा कां पुरीमधितिष्ठति ? ॥१७॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy