________________
[२०९
5
गुणानुमोदनाद्वारेऽभयकुमारकथा]
अभयोऽप्याह भृङ्गीव त्वत्पादाम्भोजकाङ्क्षिणी । स्वामिन्नायुष्मती मेऽम्बा बाह्योद्यानेऽस्ति सम्प्रति ॥४८॥ ततो नन्दां समानेतुमानन्दादभयं पुरः । प्रस्थाप्य स्वयमुत्कण्ठोत्सुकोऽथागाद् महीपतिः ॥४९॥ अनञ्जनाक्षी शिथिलवलयां लुलितालकाम् । ददर्श राजा सानन्दो नन्दामुद्यानवासिनीम् ॥५०॥ नन्दामानन्द्य नगरं प्रविश्य च महीपतिः । पट्टराज्ञीपदे चक्रे जानकीमिव राघवः ॥५१॥ पुत्रीं स्वसुः सुसेनाया मुख्यतां चापि मन्त्रिषु । राज्यार्धसंपदा साकमभयाय ददौ नृपः ॥५२॥ भर्तृभक्त्याऽभयः स्वस्मिन् पदातिपरमाणुताम् ।
मन्वानः साधयामास दुःसाध्यानपि भूभुजः ॥५३॥ ॥ इत्यभयकुमारकथायामौत्पातिकीबुद्धिनिबन्धनं नाम प्रथमः प्रकाशः ॥
10
15
$$ इतश्च श्रीविशालास्ति वैशालीति पुरी वरा । तत्र चेटीकृतारातिनृपोऽभुच्चेटको नृपः ॥१॥ पृथग्राज्ञीभवास्तस्य बभूवुः सप्त कन्यकाः । तत्प्रतापोच्छलत्सप्तार्चिषो ज्वाला इवोज्ज्वलाः ॥२॥ प्रभावती पद्मावती मृगावती शिवापि च । तथैव ज्येष्ठा सुज्येष्ठा चिल्लणा चेति ताः क्रमात् ।।३।। प्रभावती वीतभयेश्वरोदायनभूपतेः । पद्मावती तु चम्पेशदधिवाहनभूभुजः ॥४॥ कौशाम्बीशशतानीकनृपस्य तु मृगावती। शिवा तूज्जयिनीशस्य प्रद्योतपृथिवीपतेः ।।५।।
20