________________
5
15
20
२०८]
तदाकर्ण्यजनाः प्रोचुः कूपकण्ठगता इति । पाणिनेन्दुं य आदत्ते स इमामूर्मिकामपि ॥३६॥ ततोऽभयकुमारोऽपि संप्राप्तस्तत्र सस्मितम् । ऊचे किं गृह्यते नैषा किमेतदतिदुष्करम् ? ॥३७॥ तं दृष्ट्वा च जना दध्युः कोऽप्यसावतिशायिधीः । समये मुखरागो हि नृणामाख्याति पौरुषम् ॥३८॥ ऊचुस्ते तं गृहाणेमामूर्मिकां तत्पणीकृताम् । यदीच्छसि श्रयं राज्ञो धुर्यतां चास्य मन्त्रिषु ॥ ३९॥ ततोऽभयकुमारोऽपि मुद्रिकां कूपमध्यगाम् । आर्द्रगोमयपिण्डेन निजघानोपरिस्थितः ॥४०॥ स निजौत्पातिकीबुद्धेयुञ्छनी भूतमुच्चकैः । तोयचक्र भ्रमायातं गोमयं पाणिनाऽऽददे ॥ ४१ ॥ तत्परिज्ञाय चारक्षैराजुहावाभयं नृपः । आलिलिङ्ग च तं पुत्रप्रतिपत्त्या प्रमोदभाक् ॥४२॥ कुतस्त्वमागतोऽसीति पृष्टः श्रेणिकभूभुजा । अभयः प्राह सम्प्राप्तो बेन्नातटपुरादहम् ॥४३॥ राजाऽभ्यधत्त भद्रास्य ! तत्र भद्र इति श्रुतः । श्रेष्ठ किमस्ति किं चास्य नन्दानाम्नी च नन्दिनी ? ॥ ४४ ॥ अस्तीत्युक्तोऽमुना राजा प्राह नन्दोदरिण्यभूत् । किं जातं, सोऽभ्यधात् पुत्रं सासूताभयसञ्ज्ञितम् ॥४५॥ किंरूपः किंगुणः सोऽस्तीत्युदिते सति भूभुजा । ऊचे ह्यसौ स एवाहं स्वामिन्नस्मीति चिन्त्यताम् ॥४६॥ राजा तमङ्कमारोप्यालिङ्ग्याघ्राय शिरस्यथ । प्राहानन्दाश्रुमान् वत्स ! माता कुशलिनी तव ? ॥४७॥
[ विवेकमञ्जरी