________________
[२०७
गुणानुमोदनाद्वारेऽभयकुमारकथा]
क्रमादधीतविद्योऽष्टवर्षोऽमर्षेण केनचित् । अतय॑तैष कोऽसि त्वं पिता यस्य न विद्यते ॥२४॥ ऊचेऽभयकुमारस्तं ननु भद्रः पिता मम । त्वन्मातुः स पिता तेनोदिते नन्दां जगाद सः ॥२५।। भद्रस्तव जनको मातर्मदीयं जनकं वद । । पुत्रेणेत्युदिते नन्दा निरानन्देदमब्रवीत् ॥२६।। देशान्तरादुपेतेन परिणीतास्मि केनचित् । मम च त्वयि गर्भस्थे तमीयुः केचिदौष्ट्रिकाः ॥२७॥ रहः स किञ्चिदुक्त्वा तैः सहैव क्वचिदप्यगात् । अद्यापि तं न जानामि कुतस्त्यः कश्चिदित्यहम् ॥२८॥ स यानुवाच किञ्चित्त्वामिति पृष्टाभयेन सा । अक्षराण्यर्पितान्येतानीति पत्रमदर्शयत् ॥२९॥ तद्विभाव्याभयः प्रीतोऽब्रवीद् मम पिता नृपः । पुरे राजगृहे तत्र गच्छावो ननु सम्प्रति ॥३०॥ आपृच्छय श्रेष्ठिनं भद्रं सामग्रीसंयुतस्ततः । नान्देयो नन्दया सार्धं ययौ राजगृहं पुरम् ॥३१॥ मातरं बहिरुद्याने विमुच्य सपरिच्छदाम् । आत्मनात्मपरीवारः प्रविवेशाभयः पुरे ॥३२॥ इतश्च मन्त्रिणां क्लृप्तमेकोनशतपञ्चकम् । तत्पूर्ती श्रेणिकः कञ्चिदुत्कृष्टमगवेषयत् ॥३३॥ ततश्च तत्परीक्षार्थं शुष्ककूपे निजोर्मिकाम् । नृपश्चिक्षेप लोकांश्च पटहेनेदमादिशत् ॥३४॥ आदास्यते करेणैतामूर्मिकां यस्तटस्थितः । तस्य धीकौशलक्रीता मदीया मन्त्रिधुर्यता ॥३५॥