________________
5
10
15
20
२०६]
अद्यावितथपुण्यस्य कस्यातिथिरसीत्ययम् । श्रेणिकः श्रेष्ठिना पृष्टो भवतामित्यभाषत ॥ १२॥ नन्दायोग्यो वरो दृष्टः स्वप्ने योऽयं स एव सः । इति श्रेष्ठी हृदि ध्यायन् धन्योऽहमिति चाब्रवीत् ॥१३॥ संवृत्याट्टमथ श्रेष्ठी तं नीत्वा च स्ववेश्मनि । स्नपयित्वा परिधाप्य सगौरवमभोजयत् ॥१४॥ पाणिग्रहं च नन्दायाः स्वनन्दिन्याः परेद्यवि । श्रेष्ठिना कारितो भोगानभुङ्क्त स तया सह ॥१५॥ इतश्चाकस्मिकं रोगं प्राप्य राजा प्रसेनजित् । तज्झः श्रेणिकमाह्वातुं शीघ्रमादिक्षदौष्ट्रिकान् ॥१६॥ औष्ट्रिकेभ्यः परिज्ञाय पितुरत्यर्तिमुत्सुकः । नन्दां संबोध्य सस्नेहं प्रतस्थे श्रेणिकस्ततः ॥१७॥ वयं पाण्डुरकुट्यां गोपाला राजगृहे पुरे । आह्वानमन्त्रप्रतिभान्यक्षराणीति चार्पयत् ॥१८॥ गत्वा च श्रेणिको राजगृहे राजानमानमत् । साम्राज्यदीक्षितं कृत्वा तं राजापि ययौ दिवि ॥१९॥ विश्वं विश्वंभराभारं बभार श्रेणिकस्ततः । तेन गर्भवती मुक्ता गर्भं नन्दा च दुर्वहम् ||२०|| तस्या दोहद इत्यासीद् गजारूढा शरीरिणाम् । महाभूत्योपकुर्वाणा भवाम्यभयदा यदि ॥२१॥ विज्ञपय्याथ राजानं तत्पित्राऽपूरिदोहदः । पूर्णे काले च सासूत सुतं चन्द्रमिवेन्द्रदिक्॥२२॥ दोहदार्थानुसारेण तस्याथ दिवसे शुभे । चकाराभयकुमार इति मातामहोऽभिधाम् ॥२३॥
[ विवेकमञ्जरी