________________
[२०५
गुणानुमोदनाद्वारेऽभयकुमारकथा]
इत्येताः 'अज्ज वि' अद्यापि बहुधा श्रुता अपीति भावः, जनस्य लोकस्य 'चित्ते' मनसि 'चमत्कंति' चमत्कुर्वन्त्याश्चर्यं जनयन्तीति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः । तच्चैतत् - $8 अस्ति राजगृहं नाम पुरं तत्राभवद् नृपः ।
प्रसेनजिदिति ख्यातः प्रतापी भानुमानिव ॥१॥ तस्यासन् सूनवो नैके श्रेणिकाद्या महौजसः । पयोधेरिव भास्वन्तो मणयः कौस्तुभादयः ॥२॥ अन्यदा तु स्वपुत्राणां राज्याहत्वं परीक्षितुम् । भोज्याय पायसस्थालानेकत्रादीदपद् नृपः ॥३॥ प्रवृत्तेषु ततो भोक्तुं कुमारेषु कुशाग्रधीः । सारमेयानयं सिंहसारमेयानमूमुचत् ॥४॥ कुमारा द्रुतमुत्तस्थुः कुक्कुरेष्वापतत्स्वथ । तथैव श्रेणिकस्त्वस्थाच्चलितोडुष्विव ध्रुवः ॥५॥ स्तोकं स्तोकं ददौ सोऽन्यस्थालेभ्यः पायसं शुनाम् । यावल्लिलिहिरे ते तत् तावच्च बुभुजे स्वयम् ॥६॥ येन केनाप्युपायेन परानेष निरोत्स्यति । भोक्ष्यते च स्वयं राज्यं राजा तेनेति रञ्जितः ॥७॥ राज्यार्हमानिनो मैनं महान्तं ज्ञासिषुः परे । इत्यवज्ञाय तं देशान् कुमारेभ्यो ददौ नृपः ॥८॥ ततोऽभिमानी स्वपुराद् निःसृत्य श्रेणिको गतः। बेन्नातटपुरे भद्रश्रेष्ठिनोऽट्टमुपाविशत् ॥९॥ प्रभूतक्रायकैः श्रेष्ठी सोऽभवद् व्याकुलस्तदा । कुमारोऽप्यार्पयद् बद्ध्वा तत्पुटापुटिकादिकम् ॥१०॥ द्रव्यं माहात्म्यतस्तस्य श्रेष्ठी भूयिष्ठमार्जयत् । भानोः प्रभावतः किं न लभते मुकुरः प्रभाम् ॥११॥