________________
5
15
२०४]
20
प्रणतिपूर्वमभयकुमारानगारगुणभारमथ विस्तारयन्नाह
खंडियमोहपमारं अभयकुमारं नमामि अणगारं । अज्ज वि जस्स मईओ जणस्स चित्ते चमक्कंति ॥ ४८ ॥
-
[खण्डितमोहप्राकारमभयकुमारं नमाम्यनगारम् । अद्यापि यस्य मतयो जनस्य चित्तं चमत्कुर्वन्ति ॥ ]
व्याख्या
अभयकुमारनामानमनगारं महर्षि नमामि नमस्करोमि । किंविशिष्टम् ? ‘खंडियमोहपगारं’ खण्डितश्चूर्णीकृतो मोहो मूढतैव मुक्तिपुरीप्रवेशे प्रत्यूहकारः प्राकारः शालो येन, यद्वा, खण्डितोऽवगणितो मोहस्य प्रकृष्टो महतामप्यलङ्घ्य आकारो घाट: साम्राज्यलोभमयो येन स तथा तम् । यस्य किम् ? मतय 10 औत्पातिकी-वैनयिकी - कर्मजा - पारिणामिकीतिसंज्ञाश्चतस्रो बुद्धयः तथाहि
सिद्धान्तः
-
"उप्पत्तिया वेणइया कम्मया परिणामिया ।
बुद्धी चउव्विहा वृत्ता पंचमा णोवलब्भइ ॥१॥ [ उ.प./३८ ]
[ विवेकमञ्जरी
पुव्वमदिट्ठमसुयमवेइअतक्खणविसुद्धगहियट्ठा ।
अव्वाहयफलजोगा बुद्धी उप्पत्तिया नाम ॥२॥ [ उ.प./३९]
भरनित्थरणसमत्था तिवग्गसुत्तत्थगहियपेयाला ।
उभउलोगफलवई विणयसमुत्था हवइ बुद्धी ॥३॥ [ उ.प./ ४३ ]
उवओगदिट्ठसारा कम्मपसंगपरिघोलणविसाला । साहुक्कारफलवई कम्मसमुत्था हवइ बुद्धी ॥४॥ [ उ.प./ ४६ ] अणुमाणहे उदित साहिया वयविवागपरिणामा । हियनिस्सेयसफलवई बुद्धी परिणामिया नाम " ॥५॥ [ उ.प./ ४८ ]
१. औत्पातिकी वैनयिकी कर्मजा पारिणामिकी । बुद्धिश्चतुर्विधोक्ता पञ्चमी नोपलभ्यते ॥१॥ पूर्वादृष्टाश्रुताविदिततत्क्षणविशुद्धगृहीतार्था । अव्याहतफलयोगा बुद्धिरौत्पातिकी नाम ||२|| भरनिस्तरणसमर्था त्रिवर्गसूत्रार्थगृहीतप्रमाणा । उभयलोकफलवती विनयसमुत्था भवति बुद्धिः ||३|| उपयोगदृष्टसाराः कर्मप्रसङ्गपरिघोलनविशाला । साधुकारफलवती कर्मसमुत्था भवति बुद्धिः ||४|| अनुमानहेतुदृष्टान्तसाधिका वयोविपाकपरिणामा । हितनिःश्रेयसफलवती बुद्धिः पारिणामिकी नाम ॥५॥