________________
[२११
गुणानुमोदनाद्वारेऽभयकुमारकथा]
तापसी कथयामास सुज्येष्ठेयं कलानिधिः । विशालेशसुता कन्योद्वोढुमेतां त्वमर्हसि ॥१८॥ विसृज्य तापसी तस्थौ कथञ्चिदथ पार्थिवः । पक्षौ विधाय वैशाल्यां यियासुरिव तां स्मरन् ॥१९॥ दूतेन प्रार्थयामास सुज्येष्ठां चेटकादयम् । न दास्ये श्रेणिकायेमां चेटकोऽपीति चावदत् ॥२०॥ दूतेनाथ तथाख्याते श्रेणिकं खिन्नमभ्यधात् । अभयस्तात ! मा शोची: करिष्ये वः समीहितम् ॥२१॥ इति वैनयिकीबुद्ध्याऽभिधायैत्यगृहेऽभयः । चिद्रूपो रुपमलिखत् फलके मगधेशितुः ॥२२॥ ततो गुटिकया वर्णस्वरभेदं विधाय सः । वणिग्वेषं गृहीत्वा च वैशाली नगरी ययौ ॥२३॥ उपचेटकराजान्तःपुरं चापणमग्रहीत् । तत्रान्तःपुरचेटीनां क्रेतव्यमधिकं ददौ ॥२४॥ अभयश्चार्ययन्नित्यं श्रेणिकं लिखिते पटे । दासीपृष्टोऽयमाचख्यौ देवो मे श्रेणिको नृपः ॥२५॥ दास्यश्च कथयामासुः सुज्येष्ठायै सविस्मयाः । रूपं तादृग्यथादृष्टं श्रेणिकस्यातिदैवतम् ॥२६॥ ज्येष्ठदास्या समानाय्य पटकं कौतुकेन तत् । ध्यायन्त्यासीच्च निश्चेष्टा सुज्येष्ठा योगिनीव सा ॥२७॥ जगाद् च क्षणं स्थित्वा गत्वा रहसि सत्वरम् । गूढाभिप्रायसर्वस्वनिधानवसुधां सखीम् ॥२८॥ यस्येदं फलके रूपं धीमतीच्छामि तं पतिम् । तत्संघट्टयितुं त्वेनं विधिभट्टारकोऽस्तु कः ? ॥२९॥