SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ [२०१ गुणानुमोदनाद्वारे कूरगड्डुकमुनिकथा] राजापि द्वैधमप्याप प्रबोधं तमसोऽत्यये । राज्ञी तु पूर्यमाणेष्टदोहदा गर्भमावहत् ॥३३॥ असूत च क्रमात् पुत्रमसौ प्राचीव भास्करम् । नागदत्तं च तं राजाऽभ्यधत्तोत्सवपूर्वकम् ॥३४॥ धात्रीभिर्गुणपात्रीभिः पाल्यमानोऽयमर्भकः । पञ्चभिर्विषयेच्छाभिरिव कामो व्यवर्धत ॥३५।। स पञ्चवार्षिक: पित्रा पण्डितेभ्यः समर्पितः । बालेन्दुरिव वर्धिष्णुरग्रहीदुज्ज्वला: कलाः ॥३६।। एकदा बहिरुद्याने गतेन शिशुनामुना । वन्दिताः सूरयस्तेभ्यः शुश्रुवे धर्मदेशनाम् ॥३७॥ प्रकृत्योपशमी सोऽयं श्रुत्वोपशमदेशनाम् । संविग्नमानसो दीक्षामयाचिष्ट गुरूनथ ॥३८॥ गुरुरूचेऽस्ति चेद् वत्स ! व्रतेच्छा पृच्छ तन्निजौ । पितरौ तन्मतायाशु तुभ्यं दास्यामहे व्रतम् ॥३९॥ ततो नत्वा गुरून् गत्वा सोऽपृच्छत् पितराविति । तात ! मातरहं किञ्चिद् याचे वां पुत्रवत्सलौ ॥४०॥ तावूचतुरिदं सर्वे तवैव किमु याचसे ? । राज्यादपि परं किञ्चिदस्ति चेद् ब्रूहि वत्स ! ॥४१॥ सोऽभ्यधत्त प्रणम्यैतौ दीक्षां दापयताऽद्य मे । तौ तु वाक्छलमात्मीयं निन्दन्ताविदमूचतुः ॥४२॥ क्व तात ! व्रतकष्टं तत् क्व च ते कोमलं वपुः ? । रम्भास्तम्भो गृहस्तम्भः क्रियते क्वापि पुत्रक ! ? ॥४३॥ स्मित्वाऽवादीदयं केयं दयाऽङ्गस्य प्रयास्यतः । दयां कुरुत मे मुक्तिफलं दापयत व्रतम् ॥४४॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy