________________
5
10
15
20
25
२००]
मृते पुत्रेऽथ राजापि सर्पजातौ समत्सरः । ददौ दीनारमेकैकं सर्पतुण्डच्छिदं प्रति ॥२०॥ जामदग्न्य इव क्षत्त्रानहीनुत्खातुमुद्यतः । असर्पी कर्तुमारेभे स एवमवनीं नृपः ॥२१॥ इतश्च क्षपकात्मा स ज्योतिष्केभ्यश्च्युतस्तदा । दृग्विषाहिकुले सर्पो देवताधिष्ठितोऽभवत् ॥२२॥ सैष जातिस्मृतिज्ञानो मद्दृष्ट्या मा स्म भस्मसात् । अवन्तु जन्तव इति भ्राम्यति स्म दिवा न हि ॥ २३ ॥ दयालुर्न त्रसानश्नाद् निशायां निःसृतोऽपि सः । पायं पायं तु पवनान् प्रातः प्रातर्बिलेऽविशत् ॥२४॥ अन्यदा राजदीनारलुब्धः पन्नगलुब्धकः । विलोक्य घर्षणं तस्य विवेद विपिने बिलम् ॥२५॥ तेनौषधी बिलद्वारे मुक्ता द्रागहिकर्षिणी । तयाकृष्यत सर्पोऽयमयस्कान्तेन लोहवत् ॥२६॥ मद्द्द्दृष्ट्या मा स्म दह्यन्तां जीवा इति कृपावशात् । निस्ससार महात्माऽसौ पुच्छपक्षेण पन्नगः ॥२७॥ यावान् यावान् निरायिष्ट तावांस्तावानयं जवात् । खण्डशः क्रियते स्माहितुण्डिकेन दुरात्मना ॥२८॥ खण्ड्यमानमिदं नाङ्गमस्ति किन्तु विकर्म ते । शुभोदर्कामिमां पीडां रे ! जीवाधिसहस्व तत् ॥२९॥ इति ध्यायन्नमस्कारपरः पञ्चत्वमाप्य सः । तस्यैव भूपतेः पत्न्यां पुत्रत्वेनोदपद्यत ||३०||
तदा च तदधिष्ठात्री स्वप्ने धात्रीशमब्रवीत् । राजन् ! मा स्म वधीः सर्पान् पुत्रस्ते भविताऽचिरात् ॥३१॥
पुत्रस्य नाम दातव्यं नागदत्त इति त्वया । इत्याख्याय महीशाय देवता सा तिरोदधे ॥ ३२ ॥
[ विवेकमञ्जरी