SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ [१९९ 10 गुणानुमोदनाद्वारे कूरगड्डुकमुनिकथा ] ध्यात्वेति क्षुल्लकं हन्तुं धावन्नुद्यम्य विष्टरम् । सोऽन्तरा मर्मणि स्तम्भास्फालितो न्यपतद् भुवि ॥८॥ हा ! जीवेहैव कोपद्रुफलं भुक्ष्वाधमाधम !। इति स्वं गर्हयन् सोऽथ मृत्वा ज्योतिष्कदेव्यभूत् ॥९॥ इतश्च पुरमस्त्येकं वसन्तपुरसज्ञितम् । तत्रारिदमनोऽन्वर्धाभिधानः पार्थिवोऽभवत् ॥१०॥ पुत्रस्तस्यैकपुत्रस्य स्वगृहोपवनेऽन्यदा । पुष्पाणि पाणिना चिन्वन् दष्टो दुष्टेन भोगिना ॥११॥ तन्मत्वा दुःखितो राजा पटहेनेत्यघोषयत् । संजीवयति यः पुत्रं स मे राज्यार्धमर्हति ।।१२।। ततो गारुडिकः कश्चिद् नृपमेत्याशु मण्डलम् । सर्पाकृष्टिकृतेऽलेखीद् गन्धनागन्धनाभिधम् ।।१३।। पर्यङ्कासनबन्धेन कृतनिर्दम्भकुम्भकः । स सर्पाकषिणी विद्यां सभृकुटिकमस्मरत् ॥१४॥ तया सुस्फुरयाकृष्टाः फणिनः पुरवासिनः । गन्धनागन्धनकुलाः स्वं स्वं मण्डलमापतन् ॥१५॥ अथाह मान्त्रिकः सर्पानाक्षिप्याक्षतमुष्टिना । मुक्त्वापराधिनमरे ! परे यान्तु निरागसः ॥१६॥ यथागतमगुः सर्पास्ततस्ते ये निरागसः । स एवैकः स्थितो येन राजसूनुरदश्यत ॥१७॥ मान्त्रिकोऽग्निचितां कृत्वा तत्र चाहिं तमब्रवीत् । स्वमादत्स्व विषं दंशादहे ! वा दहने विश ॥१८॥ अगन्धनकुलीनत्वाद् न वान्तमपिबद् विषम् । सर्पोऽयं त्वविशद्वह्निमेकरूपा हि मानिनः ॥१९॥ 15 20 १. ख. नाहिकम् ।
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy