SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १९८] . [विवेकमञ्जरी अथ कूरगड्डुकमहर्षिगुणोत्कर्षमुद्घोषयन्नाह - सा कावि खमा तं किं पि मद्दवं अज्जवं च तं किं पि । जह कूरगड्डयमहेसिणो समत्ताई कज्जाइं ॥४७॥ [सा कापि क्षमा तत् किमपि मार्दवमार्जवं च तत्किमपि । यथा कूरगड्डकमहर्षेः समाप्तानि कार्याणि ॥] व्याख्या – इह हि वचनगोचरातीता अपि कूरगड्डकमुनेः क्षमामार्दवार्जवादयो गुणस्तदीयतात्कालिकलोकोत्तरफलसंपत्तिस्मृतिपात्रस्य कवेरनुभवैकसाध्यसदर्थेन प्रसिद्धार्थेन तच्छब्देनैवोक्ताः। अतः पदार्थः स्पष्टः । व्यासार्थस्तु कथानकादव सेयः । तच्चैतत् - 10 $क्षितिप्रतिष्ठितं नाम्ना क्षतानीतिप्रतिष्ठितम् । पुरमेत्य पुरा प्रावृष्याचार्याः केऽपि तस्थिरे ॥१॥ तदीयः क्षपकः कश्चित् क्षुल्लकेनानुगामिना । बहिर्भूमौ व्रजन् की प्रमादेनांहिणाऽशृणात् ।।२।। इयं भेकी विवेकीश ! त्वया हन्त ! हता मुने ! । इत्युक्तः क्षुल्लकेनायं दर्शयन् गणशोऽपराः ॥३।। जनलज्जावशादूचे दुष्ट रे शिष्यपांशन ! । किमेषापि किमेषापि किमेषापि मया हता? ॥४॥ युग्मम् ॥ प्रतिक्रमणवेलायामयमालोचयिष्यति । विमृश्येति स्थितस्तूर्णी क्षुल्लोऽपि विनयी नयी ॥५॥ स तमावश्यकेऽप्याह तदनालोचनाकृतम् । महर्षे ! धर्षितां भेकीमालोचयसि किं न हि ? ॥६॥ अहो ! विगोपयत्यन्तः साधूनामपि मामयम् । तदेनमात्मना हन्मि यथा बुत्कुरुतेऽपि न ॥७॥ 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy