________________
5
10
15
20
२०२]
॥४५॥
अथैतौ निग्रहस्थानपतिताविव वादिनौ । तं व्रतायान्वमन्येतां तत्र प्रत्युत्तरा नागदत्तस्ततः पित्रा कृतनिष्क्रमणोत्सवः । मुदाऽऽदत्त परिव्रज्यां सुसाधुगुरुसंनिधौ ॥४६॥ सिंहत्वेन विनिष्क्रम्य विस्मापितजगत्त्रयः । सिंहत्वेनैव गुरुभिः सहोर्व्या विजहार सः || ४७|| स तु प्राक्तनतिर्यक्त्वानुभावेन क्षुधालुकः । कूरगड्डुक इत्यन्यनामा जेमन्नभूद् मुहुः ||४८|| ज्ञानदर्शनचारित्राण्यस्योदीयुः क्षुधा समम् । इन्दोरिव सहाङ्केन स्कन्धदेशप्रदेशकाः ॥४९॥ चत्वारो देवतावन्द्या गच्छेऽत्र क्षपकोत्तमाः । एकद्वित्रिचतुर्मासान् क्षपन्ति स्म क्रमेण ते ॥५०॥ यावज्जीवं च तद्वैयावृत्त्याभिग्रहमग्रहीत् । मत्वा तत्पुण्यमक्षय्यं बालर्षिः कूरगड्डुकः ॥५१॥ बुभुक्षयैकदा तेषां मुनीनां खेलमल्लकाः । परिष्ठापयितुं तस्य व्यस्मर्यन्त महात्मनः ॥५२॥ विहृत्य शीतले भानूदये चायमुपागतः । मुनीन्निमन्त्रयामास मासक्षपणिनस्तदा ॥५३॥ ते तु खुङ्कृत्य जगदुः कोपिनस्तं प्रमद्वरम् । भोजनैकस्मृते ! खेलं क्षिपामः क्वेति शंसिनः ॥५४॥ ततो निमन्त्रणायाविष्कृते तत्पात्र एव ते । क्षपकाः खेलममुचन् गरलं पन्नगा इव ॥५५॥ तन्मुखाब्जच्युतं खेलं मन्वानो मकरन्दवत् । स क्षमापक्ष्मलस्वान्तश्चिन्तयामासिवानिति ॥५६॥
[ विवेकमञ्जरी