________________
१८४]
[विवेकमञ्जरी
10
"व्रीडामुकुलितास्येन्दुस्तमालिङ्ग्य नृपोऽवदत् । दिष्ट्या न हि विनष्टोऽसि श्रेष्ठिन् ! आत्मप्रभावतः ॥१२८।। भवान् विनाश्यते क्वापि मादृशैरविवेकिभिः । धर्मो यस्याङ्गरक्षोऽस्ति जागरूकः सनातनः ?॥१२९॥ स्त्रीणां विवेकशस्त्रीणां वचनात्त्वां निहन्ति यः । अविमृश्यकर: पापी नापरो दधिवाहनात् ॥१३०॥ सुवंशजोऽप्यकृत्यानि करुते प्रेरितः स्त्रिया । स्नेहलं दधि मनाति पश्य मन्थानको न किम् ? ॥१३१॥ मया मायाप्रधानायाः स्त्रियो वाक्येन यत्त्वयि । अपराद्धमशेषं तत् क्षन्तासि त्वं सुदर्शन !" ॥१३२।। एवमालपता राज्ञा करिण्यामधिरोप्य सः ।। नीत्वा स्वहर्ये स्नपितश्चन्दनैश्च विलेपितः ॥१३३।। वस्त्रालङ्कारजातं च परिधाप्य सुदर्शनः । राज्ञा पृष्टो निशावृत्तं यथातथमचीकथम् ॥१३४।। राजोचे भवतैवाहमकृत्यं कारितोऽस्मि हा ! । तदा यत्त्वं महासाधो ! मया पृष्टोऽपि नावदः ॥१३५।। अथाभयां प्रति क्रुद्धो भूपतिर्निग्रहोन्मुखः । न्यषेधि श्रेष्ठिना तेन शिरः प्रक्षिप्य पादयोः ॥१३६।। श्रेष्ठी करिणमारोप्य महीतरणिना ततः । नायितो न्यायिना गेहं गौरवेण गरीयसा ॥१३७।। अभयापि तदाकोद्वध्यात्मानं व्यपद्यत । पण्डिता पाटलीपुत्रे देवदत्तान्तिके ययौ ॥१३८॥ सुदर्शनोऽपि संसारविरक्तो व्रतमग्रहीत् । तपःकृशाङ्गो विहरन् पाटलीपुत्रमागमत् ॥१३९।।