SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे सुदर्शनकथा ] धर्मो धिगस्य किं शेते पुराकर्म किमप्यदः । अयं मुच्येत नः सर्वद्रव्यैर्नो जीवितैरपि ॥ ११६॥ मिथो विचारयत्येवं हाहाकारं च कुर्वति । पूर्जने रोदिति भ्राम्यन्नगादग्रे स्ववेश्मनः ॥११७॥ विशेषकम् ॥ अदृश्यत महासत्या स मनोरमया ततः । अचिन्ति च सदाचारो मत्पतिः किमिदं हहा ! ॥ ११८ ॥ इत्यन्तर्विवशा वेश्ममध्यमध्यास्य सत्वरम् । अर्चयित्वा जिनं कायोत्सर्गस्थेदमचिन्तयत् ॥११९॥ 'श्रृण्वन्तु भगवत्यः श्रीजिनशासनदेवताः ! । चन्द्रे लाञ्छनमस्तीदं सर्वथा मत्पतौ तु न ॥ १२०॥ परमश्रावकस्यास्य सान्निध्यं चेत् करिष्यथ । तदाहं पारयिष्यामि कायोत्सर्गमिमं खलु ॥१२१॥ अन्यथैवं स्थितिजुषोऽनशनं ध्रुवमेव मे । धर्मध्वंसे पतिध्वंसे किं जीवन्ति कुलस्त्रियः ?” ॥१२२॥ मा कृथाः पुत्रि,! निर्वेदं भलिष्यामोऽखिलं वयम्। सा समाधिस्थिताऽश्रौषीद् गिरं दिव्यां कुतोऽप्यथ ॥१२३॥ ततश्च न्यधुरारक्षाः शूलिकायां सुदर्शनम् । स्वर्णाम्भोजासनमभूदियं तस्य महात्मनः ॥१२४॥ अथारक्षैर्वधायास्य दृढं व्यापारिता अपि । कण्ठपीठेऽसिदण्डानां प्रहारा हारतामगुः ॥ १२५॥ मौलौ मुकुटतां भेजुः कुण्डलत्वं च कर्णयोः । बाह्वोः केयूरतां भेजुः पादे कटकतां च ते ॥ १२६॥ तद् दृष्ट्वा चकितैरेतैर्विज्ञप्तो वसुधापतिः । आरुह्य करिणीं सोऽगाद् वेगादधिसुदर्शनम् ॥१२७॥ 44 [ १८३ 5 10 15 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy