SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १८२] [विवेकमञ्जरी. सोचेऽनुज्ञाप्य देव ! त्वामहं यावदिह स्थिता । आविर्भूतः पुरो भूत इवायं तावदीक्षितः ॥१०४॥ ततः पटूनि चाटूनि कुर्वाणः स्मरघस्मरः । असौ पशुरिवोन्मत्तो मां रिरंसुरयाचत ॥१०५॥ अनिच्छन्त्यां मयि ततो बलात्कारमयं व्यधात् । मया च पूत्कृतं नान्यदबलानां बलं यतः ॥१०६।। अस्मिन्निदमसम्भाव्यमिति मत्वा महीपतिः । किमेतदिति पप्रच्छ सुदर्शनमनेकधा ॥१०७।। पृष्टोऽपि राज्ञीकृपया किञ्चिद् नोचे सुदर्शनः । येनापकारिकाभ्योऽपि सन्तो हन्तोपकारिणः ॥१०८॥ ततः सम्भावयामास दोषं तस्यैव भूपतिः । पारदारिकदस्यूनां तूष्णीकत्वं हि लक्षणम् ॥१०९॥ इति क्रुद्धः समादिक्षदखिलेऽप्यत्र पत्तने । दोषप्रख्यापनां कृत्वा दुष्ट एष निगृह्यताम् ॥११०॥ अथार:स्ततो धृत्वा केशेष्वयमकृष्यत । यथा तथापि जायन्ते यौवने हि विगोपकाः ॥१११॥ स मुखे चर्चितो मष्या देहे चूर्णेन चित्रितः । बिल्वैवरलङ्कृतो मूनि कण्ठे निम्बदलस्रजा ॥११२।। रासभारोपितः सूर्पातपत्रस्तत्र पत्तने । वाद्यमानेन वाद्येनारेभे भ्रमयितुं भटैः ॥११३।। कृतापराधः शुद्धान्ते बध्यतेऽसौ सुदर्शनः । नात्र दोषो नृपस्येति चक्रुराघोषणां च ते ॥११४॥ न युक्तं कृतवानेष नेह संभवतीदृशम् । अस्मिन् राजापि नेदृक्षः कुपितोऽत्र विधिः खलु ॥११५॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy