________________
[१८१
गुणानुमोदनाद्वारे सुदर्शनकथा]
ताम्यन्तीं याचमानां मां नम्रां मानय मानद !। दैवात् करमुपायातां सुधां पिबसि किं न हि ? ॥१२॥ कियदद्यापि सौभाग्यगर्वमुन्नायिष्यसि ? । इत्यालपन्ती सा पीनस्तनाभ्यां तमताडयत् ॥१३॥ इत्थं यथा यथा चक्रे सोपसर्गमनर्गला । सुदर्शनः शुभध्यानमारुरोह तथा तथा ॥९४॥ स दध्यौ चेति चेद मच्ये कथञ्चिदहमेतया । पारयामि तदुत्सर्गमन्यथानशनं मम ॥१५॥ अमानिताथ घटितभ्रकुटिः कुटिलाशया । तं भापयितुमारेभे भषन्ती निर्भयाऽभया ॥९६।। त्वयीदमूषरे सर्वं मूर्ख ! रे वर्षितं मया । न वेत्सि मानिनी तुष्टाऽमृतं रुष्टा विषं पुनः ॥१७॥ चापस्येवाधुना जीवाधानं ते नमतो मयि । अन्यथा त्वध्वरे जात एवासीध्मं हविर्भुजः ॥९८|| इत्थं यथा यथाऽभैषीदभया पातकाभया । तथा तथासौ सद्ध्यानमानशे निजमानसे ॥९९॥ विचक्रामाभया कामं विकला सकलां निशाम् । न चुक्षोभ लयादात्मदर्शनस्तु सुदर्शनः ॥१००।। ततः प्राभातिकी वीक्ष्य रजनी राजवल्लभा । विलक्षा स्वं विलिख्याशु नखैः पूत्कारमातनोत् ॥१०१।। आयान्ति स्म ततो यावद् यामिकास्तत्र सम्भ्रमात् । कायोत्सर्गस्थितं तावद् ददृशुस्ते सुदर्शनम् ॥१०२।। अस्मिन्न सम्भवत्येतदिति द्रुतमुपेत्य तैः । विज्ञप्तो भूपतिस्तत्राययौ पप्रच्छ चाभयाम् ॥१०३॥