SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १८०] 10 [विवेकमञ्जरी इतोऽभयापि विहितशिरोऽत्तिच्छद्मना तदा । तस्थौ नृपतिमापृच्छ्य यदुत्पन्नधियः स्त्रियः ॥८०।। अथो सुदर्शनं याने न्यस्याच्छाद्य च वाससा । द्वा:स्थैरस्खलिता नीत्वाऽभयायै पण्डिताऽऽर्पयत् ।।८१।। तमस्पष्टाक्षरोल्लापा सा पाणिप्रणयीकृतम् । स्विद्यन्ती कम्पमानाथ प्रार्थयत्पार्थिवप्रिया ॥८२।। मामकीनमनोमीनं वसन्तं रागसागरे । अग्रहीद् गुणजालेन धृतस्तेनासि धीवर ! ॥८३।। क्षिप्तो हच्चत्वरे बाढं बाहुपाशेन बन्धनम् । मत्तो नवनवस्फारं मारकर्म च लप्स्यसे ॥८४॥ पुंनागस्यास्य सुमनःकृष्टिमाधातुमुच्चकैः । गिरं व्यापारन्तीति कुटिलामङ्कुटीमिव ।।८५।। स्कन्धे ललम्बे बाहुभ्यां मृदुलाभ्यां मृणालवत् । रम्भास्तम्भाभिरामाभ्यामुरुभ्यां मध्यमग्रहीत् ॥८६॥ चतुभिः कलापकम् ॥ ततः सुदर्शनोऽत्यर्थं समाधिस्तिमितोऽभवत । वर्षासरित्परीरब्धः किमब्धिस्तरलायते? ॥८७॥ पुनरप्यभयाऽवादीदनादीनत्वभावयुक् । प्रसीद नाथ ! सीदन्तीमिति मां किमुपेक्षसे ? ॥८८॥ मन्मथो हन्ति मां हन्त दुर्वारप्रसरैः शरैः । सनाभिरसि तस्यातः पाहि मां शरणागताम् ॥८९॥ आनीतश्छद्मनासीति कोपं मा स्म वृथा कृथाः । बद्ध्वाऽऽनीतो नदीपूरः प्रजाशाः किं न पूरयेत् ? ॥१०॥ व्रतकष्टमिदं मुञ्च मत्प्राप्त्या फलितं ह्यदः । स्वर्गापवर्गयोर्वार्ता स्मार्तानां गल्लझल्लरी ॥११॥ 15.
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy