________________
[१७९
10.
गुणानुमोदनाद्वारे सुदर्शनकथा]
जिनाधिवासितोऽप्यन्तर्गभीरोऽपि सरित्पतिः । क्षये त्यजति मर्यादां न तथापि सुदर्शनः ॥६८॥ सदैन्यमभयाऽवादीदेकवेलं कथञ्चन । आनयैनं ततः सर्वं भलिष्यामि न ते च्छलम् ॥६९॥ अथो तथोदयत्प्रज्ञामण्डिता प्राह पण्डिता । निश्चयश्चेत्तवायं तदस्त्युपायो मया स्मृतः ॥७०॥ पर्वाहे शून्यगेहादौ कायोत्सर्गं करोति सः । आनेतव्यो यदि परं तथास्थो नान्यथा पुनः ॥७१॥ उपाय: साधु साध्वस्मिन् यतितव्यं त्वयानिशम् । इत्युक्तवत्यां तात्पर्याद् देव्यामामेत्युवाच सा ॥७२॥ सुदर्शनसमां कामप्रतिमां तत्र कामपि । पुजायै पण्डिता पर्वशर्वरीषु समानयत् ।।७३।। तस्यामानीयमानायं प्रतिपर्वनिशं भृशम् । तया विश्वासमानीताः सर्वेऽन्तःपुरयामिकाः ॥७४॥ एवङ्कारं व्यतीतेषु दिवसेषु कियत्स्वपि । विश्वानन्दी समागच्छत् कौमुदीयो महोत्सवः ॥७५॥ तदुत्सवाय राजाथ पटहोद्घोषपूर्वकम् । सर्वोद्यानमाह्वास्त समस्तमपि पूर्जनम् ॥७६।। प्रातरेष्यच्चतुर्मासधर्मकर्मकृते कृती । सोपायनो नृपं गत्वा पृच्छति स्म सुदर्शनः ॥७७|| अनुज्ञातो नृपेणाह्नि द्वितीये श्रीमदर्हताम् । अर्चा विरचयंश्चैत्यपरिपाटीं चकार सः ॥७८॥ ततो रात्रौ गृहीत्वैष पौषधं दुरितौषधम् । कायोत्सर्गेण कुत्रापि स्थितः शून्यगृहान्तरे ॥७९॥
20