________________
१७८]
[विवेकमञ्जरी
अतो विलक्षा कपिलाऽप्यब्रवीदित्यसूयया । वञ्चिता चेदहं मूढा प्रौढायाः किं तवाधिकम् ? ॥५६॥ अभयोचे मया चन्द्रकलयेव कराञ्चितः । असञोऽपि द्रवेद् ग्रावा ससञः किं पुनः पुमान् ? ॥५७॥ सेयॆमूचेऽथ कपिलाऽप्येवं मा गर्वमुद्वह । गर्वं वहसि चेद् देवि ! रम्यतां तत्सुदर्शनः ।।५८।। व्याजहाराभया देवी साहङ्कारमिदं ततः । हले ! रमितमेवैनं मया विद्धि सुदर्शनम् ॥५९॥ योषाभिः पशुवेषाभिरपि ते मुनयो वने । नीरसा अप्यरम्यन्त क्वासौ स्मरवशो गृही ? ||६०॥ विलसामि न यद्येनं तद् विशामि हुताशनम् । इत्यालपन्त्यावुद्यानं प्रपेदाते क्षणेन ते ॥६१॥ चिरं चिक्रीडतुस्तत्रोद्याने वानेयसम्पदा । अभया-कपिले श्रान्ते निशान्ते जग्मतुस्ततः ॥६२॥ अभयात्मप्रतिज्ञातमथ मन्मथजीवितम् । उपायपण्डितायै तत्पण्डितायै न्यवेदयत् ॥६३॥ अथैतां पण्डिता प्राह खण्डिताननदीधितिः । पात्रापात्रमनालोच्य धिक् प्रतिज्ञामिमां तव ॥६४॥ अन्योऽपि परनारीषु सोदरः श्रावको भवेत् । असौ किं नु महासत्त्वशिरोरत्नं सुदर्शनः ? ॥६५॥ सदा गुरुकुलासेवी ध्यानमौनरतः सदा । आनेतुमभिसर्तुं वा स कथं नाम युज्यते ? ॥६६॥ वरं सिंहसटासर्पफणारत्नग्रहाग्रहः । न तु शीलविलोणय प्रतिज्ञातः सुदर्शनः ॥६७।।