SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ [१७७ 5 गुणानुमोदनाद्वारे सुदर्शनकथा] नार्योऽना?चितीशीलाः कीला इव हविर्भुजः । भस्मतां मेलयन्त्यात्मपराश्रयमसंस्तुताः ॥४४॥ एताभ्यो भीरुरस्मीति विमृश्याथ सुदर्शनः । प्रत्यज्ञासीत् परगृहे नैको यास्याम्यतः परम् ॥४५॥ देहबद्ध इव न्यायो विवेक इव मूर्तिमान् । प्रत्यक्ष इव धर्मोऽसौ नावद्यं किञ्चिदाचरत् ॥४६॥ यथाकालमथायाते तत्र चेन्द्रमहोत्सवे । सुदर्शन-पुरोधाभ्यां सहोद्यानं ययौ नृपः ॥४७॥ इतो नरविमानस्थाऽभया कपिलयान्विता । शरल्लक्ष्मीरिवोत्फुल्लनयना नृपमन्वगात् ॥४८॥ सुदर्शनप्रिया षड्भिः समं पुत्रैमनोरमा । तत्रागाद् यानमारुह्य धर्मसम्पद् गुणैरिव ॥४९।। अभयां कपिलाऽपृच्छत् षट्पुत्रा केयमङ्गना ? । महादेवीव देहैक्यात् किमत्र षण्मुखान्विता? ॥५०॥ राज्यलक्ष्मीरिव गुणैः सुत्तै षड्भिरियं युता। सुदर्शनप्रियाऽज्ञायि न त्वयेत्यभयाऽवदत् ॥५१॥ श्रुत्वेति विस्मिता स्माह कपिला देवि ! यद्यसौ । सुदर्शनस्य गृहिणी तदस्यास्तनयाः कुतः ? ॥५२॥ अथ स्मित्वाऽभयाऽवोचत पुमान् किं न सुदर्शनः ? । साऽवादीद् नैव राज्यूचे चतुरे ! वेत्स्यदः कथम् ? ॥५३॥ इत्युक्ता स्वानुभूतं साऽभयायै कपिला ततः । सुदर्शनस्य षण्ढत्ववृत्तान्तं तत्तथा जगौ ॥५४॥ अभयाप्यब्रवीदेवं यद्येवं वञ्चिताऽसि तत् । मूढे ! षण्ढोऽयमन्यस्त्रीजने नात्ममृगीदृशि ॥५५॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy