SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १७६] [विवेकमञ्जरी 10 तं ज्ञापयाधुनापीति तयोक्तः कपिलोऽवदत् । असावृषभदत्तस्य श्रेष्ठिनस्तनयो नयी सुतोपमाः ॥३२॥ सैष रूपेण पञ्चेषुस्तेजसा तेजसां पतिः । सौन्दर्येण शरच्चन्द्रो गाम्भीर्येण तु वारिधिः ॥३३॥ दानिनोऽस्य करेऽङ्गुल्यः कामधेनुः सुतोपमाः । नखाश्चिन्तामणिसखास्त्वक् कल्पद्रुप्रवालरुक् ॥३४।। अस्मिन् गुणमये प्राप्तलीलः शीलगुणो महान् । मुक्तास्थालं यथा रत्नमिन्दुकान्तममूल्यकम् ॥३५॥ श्रुत्वेति कपिला कामविह्नला तद्गुणश्रवात् । सुदर्शनेऽभिसर्तुं सा चक्रे चिन्तामहर्निशम् ॥३६॥ अन्यदा नृपतेगूढादेशाद् ग्रामान्तरं गते । कपिले कपिलेयाय सुदर्शनमुवाच च ॥३७|| अद्य ते सुहृदो देहापाटवं तेन ते गृहम् । नाययौ त्वां समाह्वातुमातुरो मां न्ययोजयत् ॥३८॥ हा ! न वेद्मीदमित्युक्त्वा तं गृहं द्रुतमागतम् । नीत्वैकान्ते वृषस्यन्ती कपिला प्रार्थयत् किल ॥३९॥ पतितः सङ्कटे तस्यां स्मित्वोवाच सुदर्शनः । भद्रे ! युक्तमिदं यूनां भवस्यापि फलं ह्यदः ॥४०॥ षण्ढः परमहं मूढे ! पुंरूपेण ममामुना । फलेन शाल्मलितरोः शुकस्त्रीवाऽसि वञ्चिता ॥४१॥ ततो विरक्ता सा सद्यो याहि याहीति भाषिणी । द्वारमुद्घाटयामास निर्ययौ च सुदर्शनः ॥४२॥ स्तोकेन दुर्गतेाराच्छुटितोऽस्मीति चिन्तयन् । कल्याणीशीलवृत्तिः स्वं धाम धीमानयं गतः ॥४३।।
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy