________________
[१८५
गुणानुमोदनाद्वारे सुदर्शनकथा]
भजन्माधुकरी वृत्तिं दृष्टः पण्डितयात्र सः । कथितो देवदत्तायाः सोऽपि तस्या गृहं ययौ ॥१४०॥ गृहस्य कुमुदस्येव बद्ध्वास्यं देवदत्तया । धृतो लक्ष्म्येव दिवसं यावच्चुक्षोभ नैष तु ॥१४१।। ततो मुक्तस्तया सायमुद्यानं गतवानयम् । तत्रापि दृष्टोऽभयया व्यन्तरीभूतया तया ॥१४२।। स्मरन्त्या प्राक्तनं कर्म तस्य मर्माविधोऽनया । स्वामिनः सङ्गमेनेवोपसर्गास्तेनिरे निशि ॥१४३।। क्लिश्यमानो बहु तया महासत्त्वः सुदर्शनः । क्षपकश्रेणिमारोहदपूर्वकरणक्रमात् ॥१४४।। तस्यापि केवलज्ञानमुन्मिमील समुज्ज्वलम् । समेत्य महितश्चायं देवदानवमानवैः ॥१४५।। देवनिर्मितहेमाब्जमासितो भगवानयम् । दिदेश कर्मणां मर्माविधं धर्मे चतुर्विधम् ।।१४६॥ तस्य देशनया तत्रान्येऽबुध्यन्त न केवलम् । पण्डिता देवदत्ता चाभया चापि व्यबुध्यत ॥१४७॥ इत्थं स भास्वानिव कान्तिशाली नालीकबोधं विरचय्य गोभिः । सुदर्शनः केवलभूर्तिरायुर्दिनावसानेऽजनि निर्वृतात्मा ॥१४८॥४४।।
15
॥ इति सुदर्शनकथा ॥