________________
गुणानुमोदनाद्वारे सुदर्शनकथा]
[१७३ अथ तदसीमशीलगुणध्यानप्रधानमानसः संजातपुरोदर्शनमिव सुदर्शनमभि
नन्दयन्नाह
भवभमणनिब्भयाए अभयाए पाडिओ वि तह विसमे । निव्वूढो सि सुदंसण ! तुह कित्ती तेण महमहइ ॥४४॥
[भवभ्रमणनिर्भययाऽभयया पातितोऽपि तथा विषमे ।
नियूंढोऽसि सुदर्शन ! तव कीर्तिस्तेन मामहीति ॥] व्याख्या - हे सुदर्शन ! भवभ्रमणनिर्भयया अभयया 'तह विसमे' तथा तेन निर-पायचतुरुपायसारेण प्रकारेण विषमे सङ्कटे वह्नाविव कनकपिण्ड: 'पडिओ वि' पातितोऽपि, यत्तदोनित्यसम्बन्धत्वात्, येन 'निव्वूढो सि' निर्व्यढोऽसि तस्माद् विषमादिति भावः, विशेषमहिमानमादाय निःसृतोऽसि । 'तुह कित्ती तेण महमहइ' 10 तव कीर्तिस्तेन हेतुना बहुलपरिमला प्रसरतीति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः । तच्चैतत् - $$ अस्त्यङ्गदेशे दत्तारिकम्पा चम्पाभिधा पुरी ।
दुग्धोदधियशास्तस्यां नृपोऽभूद् दधिवाहनः ॥१॥ अभया विभया स्वास्यदासितेन्दुः प्रियास्य तु । रूपलावणयकलिता कैटभारेरिवेन्दिरा ॥२॥ इतस्तस्यां पुरि श्रेष्ठि गरिष्ठो धर्मशालिनाम् । अभूद् वृषभदासोऽस्याहदासीति प्रिया सती ॥३॥ श्रेष्ठिनस्तस्य महिषीपालः सुभग इत्यभूत् । निनाय महिषीनित्यं स तु चारयितुं वने ॥४॥ माघमासे वनादेष निवृत्तः सायमन्यदा । अप्रावरणमद्राक्षीत् कायोत्सर्गस्थितं मुनिम् ॥५॥ अस्यां हेमन्तरात्रौ यः स्थाता स्थाणुरिव स्थिरः । असौ धन्यो महात्मेति चिन्तयन् स गृहं ययौ ॥६॥ महर्षि हर्षितमहाहिमानीवर्षवेदनम् । तमेवार्द्रमना ध्यायन् यामिनी तामनीनयत् ॥७॥
15
25