SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 १७४] निशायामविभातायामादाय महिषीस्ततः । स ययौ तत्र यत्रास्ति स मुनिः प्रतिमास्थितः ॥८॥ नतिमानतिमात्रं तमुपासाभासिवानसौ । तदास्यस्पर्धयेवार्क उद्ययौ तदुपास्त ॥ ९ ॥ स 'नमो अरिहंताणं' इत्युक्त्वोदपतद् मुनिः । तत्पदं खेचरीविद्याधियान्तः सुभगस्त्वधात् ॥१०॥ स्वपञ्जाग्रन्नदंस्तिष्ठन्नक्तमह्नि गृहे बहिः । तदेवापठदुच्छिष्टोऽप्येकग्राहा हि तादृशः || ११|| पप्रच्छ विस्मितः श्रेष्ठी तत्प्रवृत्तिमयं ततः । शशंस तत्तथोद्भूतां श्रेष्ठी पुनरुवाच तम् ॥१२॥ आकाशगमने हेतुरसौ विद्या न केवलम् । किन्तु हेतुरसावेव गतौ स्वर्गापवर्गयोः ॥१३॥ किमेकमुच्यते पञ्चपरमेष्ठिनमस्कृतेः । अस्या यस्याः प्रभावेण किङ्करीक्रियते जगत् ॥१४॥ विद्येयं साधु यत्प्राप्ता पठ किन्त्वखिलामिमाम् । उच्छिष्टो मा जपेः श्रेयः परत्रेह च ते यथा ॥ १५॥ सोऽथ शेषनमस्कारमधीत्य श्रेष्ठिनो मुखात् । परावर्तयताजस्रं धनं प्राप्येव निर्धनः ||१६|| एवं तस्य नमस्कारजापव्यापारिमः सतः | कियत्यपि गते काले वर्षाकालः समाययौ ॥१७॥ नीचैस्तराण्यथो नीचैरुच्चैरुच्चैस्तराण्यथ । तदानीमेकदानीव धनः स्वीयश्रियाऽधिनोत् ॥१८॥ गृहाद् गृहीत्वा महिषीर्जगाम सुभगो वनम् । नदीं तीर्त्वा महिष्यस्तु परक्षेत्रे तदाविशन् ॥१९॥ १. क. स्वर्णश्रि° । [ विवेकमञ्जरी
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy