SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ [१६५ 10 गुणानुमोदनाद्वारे वज्रस्वामिकथा] शेषमप्यचिरेणापि त्वमागमयसि श्रुतम् । धीमन्नधीष्व धीरोऽसि किमकाण्डे विषीदसि ? ॥२५८॥ एवमाश्वसितस्तेन गुरुणा करुणावता । पुनः प्रवृत्तः सोऽध्येतुं भग्नोत्साहोऽपि भक्तिभाक्॥२५९॥ फल्गुरक्षितन्येधुर्मूर्तिमद्वन्धुवाचिकम् । दर्शयन्नुत्सको गन्तुं श्रीवजं स पुनर्जगौ ॥२६०॥ अयमुत्साह्यमानोऽपि हन्त ! गन्तुमनाः कथम् ? । एवं विचिन्तयन् वज्रस्वाम्यभूदुपयोगभाक्॥२६१।। सोऽथामस्तेत्यतो यातो नायमायास्यति ध्रुवम् । स्तोकमायुश्च मे पूर्वं मय्येव दशमं स्थितम् ॥२६२॥ अनुज्ञातस्ततस्तेन गमनायार्यरक्षितः । सफल्गुरक्षितः शीघ्रं पुरं दशपुरं ययौ ॥२६३।। तत्राभ्युपेत्य भूभ; मात्रा पित्रा च बन्धुभिः । पौरैश्च वन्दितश्चक्रे देशनामार्यरक्षितः ॥२६४॥ प्रबुध्य तगिरा राजा सम्यक्त्वमपरे पुनः । पित्राद्या बन्धवश्चास्य प्रव्रज्यां प्रतिपेदिरे ॥२६५॥ 88 इतश्च विहरन् वज्रः प्रययौ दक्षिणापथम् । धनागमेऽत्र केकीव विवेकी मुमुदे जनः ॥२६६॥ श्लेष्मबाधोदयेऽन्येधुः सुण्ठीमानाय्यसाधुना । भुक्त्वैतां भक्षयिष्यामीति स्वामी श्रवसि न्यधात् ।।२६७।। भक्षितुं विस्मृता सा च स्वामिनोऽध्ययनादिना । मुखवस्त्रिकया कायं प्रत्युपेक्षयतोऽपतत् ॥२६८।। पतितां तां च खाट्कृत्यास्मरद् वज्रो मुनीश्वरः । हाहा धिग् धिक् प्रमादोऽयं ममेति स्वं निनिन्द च ॥२६९॥ 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy