SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १६६] [विवेकमञ्जरी प्रमादे संयमो न स्याद् निष्कलङ्कः कथञ्चन । तं विना मानुषं जन्म जीवितं च निरर्थकम् ॥२७०॥ कुर्मस्ततो वपुस्त्यागं वज्रस्वामीत्यचिन्तयत् । अजायत समन्ताच्च दुभिक्षं द्वादशाब्दिकम् ॥२७१।। वज्रासेनाभिधं शिष्यं स्वाम्यथ श्रुतपारगम् । इत्यादिदेश त्वं वत्स ! साम्प्रतं विहरान्यतः ॥२७२॥ लक्षमूल्यौदनाद् भिक्षां यत्राह्नि त्वमवाप्नुयाः । सुभिक्षमवबुध्येथास्तदुत्तरदिनोषसि ॥२७३।। सोपारकपुरे श्रेष्ठी जिनदत्तो महाधनः । भार्यया सममीश्वर्या चतुर्भिश्च सहाङ्गः ॥२७४॥ . त्वत्सुभिक्षोपदेशेन निवृत्त्यापमृतेः कृती । आदास्यते व्रतं त्वत्तो मर्त्यजन्मतरोः फलम् ॥२७५॥ युग्मम् ॥ चत्वारो भवितारस्तत्सुता गच्छादिकन्दलाः । नागेन्द्रचन्द्रौ विद्याभृन्निर्वृती नामतश्च ते ॥२७६।। एवमादि समादिश्य स्वामिना प्रेषितस्ततः । विहर्तुं वज्रसेनोऽपि प्रावृतद् नीवृतोऽभितः ॥२७७।। भिक्षामलभमानास्तु दुभिक्षे वज्रसाधवः । अन्वहं गुरुभिर्दत्तं विद्यापिण्डमभुञ्जत ॥२७८॥ - द्वादशाब्दानि भोक्तव्यः पिण्डोऽयं वस्ततो यदि । संयमस्य न बाधास्ति तमाहृत्य ददाम्यहम् ॥२७९॥ नो वा तदा सहान्नेन तनोस्त्यागं विदध्महे । इत्युक्तागुरुभिर्धर्ममतयो यतयोऽभ्यधुः ॥२८०॥ युग्मम् ।। धिक् पाषाणमिमं पिण्डं पिण्डपोष्यमिदं च धिक् । प्रभो ! प्रसीद येनैतत् त्यजामो द्वितयं वयम् ॥२८१॥ 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy