SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १६४] [विवेकमञ्जरी माता-पितृभ्यामाह्वातुमथैनं फल्गुरक्षितः । प्राणप्रियोऽनुजस्तस्य प्रैष्यागत्य स तं जगौ ॥२४६।। "किमेवं कठिनोऽभूस्त्वमनुत्कण्ठः कुटुम्बके । भ्रातः ! पक्ष्यपि दिक्चक्रं भ्रान्त्वाऽभ्येति भुवं निजाम् ॥२४७|| वैराग्यपशुना छिन्नं यद्यपि प्रेमबन्धनम् ।। तथापि तव कारुण्यमस्ति पुण्यनिबन्धनम् ॥२४८।। शोकसङ्कटमग्नोऽस्ति बन्धुवर्गश्च साम्प्रतम् । तदागत्य तमुद्धर्तुं भगवंस्तव साम्प्रतम्" ॥२४९॥ इत्युक्तो बन्धुना वज्रमापप्रच्छाऽऽर्यरक्षितः । पठेत्युक्तोऽमुना भूयः पठन्नूचे च बन्धुना ॥२५०॥ बान्धवास्ते परिव्रज्यामनोरथरथस्थिताः । न कुत्रापि प्रवर्तन्ते त्वया सारथिना विना ॥२५१।। तदेहि देहि बन्धूनां व्रतं सुव्रत ! सत्वरम् । श्रेयस्यपि सकर्णोऽपि किमद्यापि प्रमाद्यसि ? ॥२५२॥ अथार्यरक्षितः स्माह यदि सत्यमिदं वचः। ततस्त्वं तावदाददत्स्व सर्वविश्वहितं व्रतम् ॥२५३।। श्रुत्वेत्यूचेऽमुना देहि तदानीमार्यरक्षितः । स्वयं तमनुजग्राह दीक्षया शिक्षयापि च ॥२५४।। यातुमुत्कोऽन्यदा फल्गुरक्षितेनार्यरक्षितः । अधीतानेकयमको गन्तुमूचे पुनर्गुरुम् ॥२५५॥ तन्निषिद्धस्त्वधीयानो यमकेभ्यः पराजितः । सोऽपृच्छद् गुरुमद्यापि शिष्यतेऽदः श्रुतं कियत् ? ॥२५६।। सस्मितं गुरुरप्याह पूर्वमेतद् तवाग्रिमम् । बिन्दुमात्रं त्वयाऽधीतमब्धितुल्यं तु शिष्यते ॥२५७॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy