________________
[१६१
गुणानुमोदनाद्वारे वज्रस्वामिकथा]
गत्वा चेक्षुगृहद्वारे चतुरोऽयमचिन्तयत् । कथमन्तर्विशाम्यर्हद्धर्माचाराविशारदः ? ॥२१०॥ प्रातर्वन्दनकायातश्रमणोपासकैः सह । वसत्यन्तः प्रवेक्ष्यामि प्रतीक्षे क्षणमत्र तत् ॥२११॥ इत्यार्यरक्षितस्तस्थौ द्वारेऽपि द्वारपालवत् । शृण्वन् सुधीरधीयानसाधूनां मधुरा गिरः ॥२१२।। तत्रागाङ्कट्टरो नाम श्रमणोपासकः प्रगे। वन्दनाय महर्षीणां हर्षेणोत्कर्षिताशयः ॥२१३।। नैषेधिर्की विधायैष प्रविवेश प्रतिश्रयम् । अथेर्यापथिकी प्रत्यक्रामदुच्चस्तरस्वरः ॥२१४॥ तदनन्तरमाचार्यान् साधूनपि यथाविधि । वन्दित्वा निषसादाग्रे विष्टरं प्रतिलिख्य सः ॥२१५॥ तदेतदवधार्यार्यरक्षितोऽपि यथाक्रमम् । अभिनीय गुरूपान्ते निषसाद कृताञ्जलिः ॥२१६।। श्रावकं नूतनं मत्वा ढड्डरावन्दनेन तम् । अपृच्छन् गुरवो वत्स ! कुतो धर्मागमस्तव ? ॥२१७॥ तेनोक्ते श्रावकादस्मादूचिरे मुनयः प्रभो ! । रुद्रसोमासुतः सोऽयं विद्वान् मान्यो महीपतेः ॥२१८॥ अयमाद्यगुणस्थानस्थितानां धुरि गण्यते । आश्चर्यं श्रावकाचारं परिस्पृशति किं ह्यदः ? ॥२१९॥ अथाह सोमभूः सम्प्रत्यस्ति श्रावकता मम । रत्नता सलिलस्येव लोहस्येव सुवर्णता ॥२२०॥ इति विज्ञपयामास चाचार्यानार्यरक्षितः । प्रसीद भगवन् ! दृष्टिवादस्याध्यापनेन मे ॥२२॥
15